________________
आवश्यक नियुक्तिदीपिका।
पारिष्ठापनाविधिः।
॥ ४३॥
विहिगहियं विहिभुत्तं तह गुरूहिं जं भवे अणुन्नायं ।
ताहे वंदणपुवं भुंजइ से संदिसावेउं ॥ १६०५ ॥ विधिनाऽलुब्धेन निर्दोषं गृहीतं ततो विधिना वृद्धानां प्रदानुज्ञाप्य क्षुल्लादिनिमन्त्रणया कटप्रतरच्छेदसिंहखादना|दिना ओघनिर्युक्त्युक्तेन मण्डल्यां भुक्तम् । ईदृशं उद्वरितं अधिकं जातं गुर्वनुज्ञातं पारिष्ठाप्यं ज्ञात्वा यदा गुरुर्वक्ति आउँदै पारिष्ठापनिकमिच्छाकारेण भुक्ष्व, तदा तस्य वन्दनं दत्वा संदिश्य भोक्तुं कल्प्यम् ।। १६०५ ॥
चउरो य हुंति भंगा पढमे भंगमि होइ आवलिया ।
इत्तो अ तइयभंगो आवलिया होइ नायवा ॥ १६०६ ॥ चत्वारो भङ्गाः स्युः । विधिगृहीतं विधिभुक्तं १ विधिगृ. अविधिभुक्तं २ अविधिगृ० विधिभुक्तं ३ अविधिगृ० । अविधिभुक्तं ४ । प्रथमे भने पूर्वोक्तावलिकानां भोक्तं कल्प्यं । द्वितीये परिष्ठाप्यते । अविधिभुक्तं नाम काकशृगालादिरीत्या | भुक्तं, तत्र यद्वर्धते तदुज्झ्यते । दाने छर्यादिदोषः । ईदृग् यो दत्ते यश्च मुले द्वयोरपि विवेकः क्रियतेऽपुनःकारेण वोप| स्थितयोः पञ्चकल्याणं दीयते । तृतीयभङ्गेऽविधिगृ० स्वभोजनार्थ स्निग्धादिबहुलामं लात्वा विधिना भुक्तं रात्निकेन सह
मण्डल्या, तदुद्वरितं आवलिकानां कल्प्यं । अविधिगृहीतं अविधिभुक्तं अकल्प्यम् । तथा यद्वाऽसंस्तरणेऽशुद्धं गृहीतं ततो मण्डल्यां वृद्धादेशाद्विधिना भुक्तं । तत्रावलिकया न कल्पते ॥ १६०६ ।। व्याख्यातं आद्यगाथोक्तं प्रत्याख्यानद्वारं । प्रत्याख्यातारमाह
॥५३॥
Jain Education Internet
For Private & Personal use only
www.jainelibrary.org