SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ८ द्वीपदशाः ९संक्षेपिकदशा १० दशाध्ययननामभिः कतिकथाभिश्च स्थानाङ्गोक्ताः सन्त्यधुनात्वप्रसिद्धाः । तथा दशविधश्रमणधर्म प्रतिक्रमणोक्तं उपसम्पन्नः गुणैर्युक्तः । 'आसा' आशातनां सर्वां त्रिगुणैकादशविधां त्रयस्त्रिंशत्संख्यां विवर्जयन् , आशातनाः ३३ प्रतिक्रमणे व्याख्याताः, तथा सर्वा आशातना द्रव्यादिषु चतुर्यु समवतरन्ति यथा द्रव्याशातना रत्नाधिकेन सहाशन मनोज्ञं आत्मना भुते, एवमुपधिसंस्तारकादिष्वपि ज्ञैयं १ । क्षेत्राशातना ज्येष्ठस्यासन्नगमनादिभ्यः २ । कालाशातना रात्रौ विकाले वा गुरोर्वदतस्तूष्णीकस्तिष्ठति ३ । भावाशातना गुरुं त्वमिति वक्ति ४ । एवं उपसमेत उपसम्पन्नोऽनाशातनागुणैर्युक्तः पञ्चमहाव्रतानि रक्षामि । एवं एकद्व्यादिस्थानैर्महाव्रतरक्षां उक्त्वाऽथानुक्तगुणो. क्त्या तां समर्थयति । 'एवं' गाहा-एवं त्रिभ्यो दुष्टमनोवाक्कायरूपेभ्यो दण्डेम्यो विरतस्त्रिकरणैर्मनोवाकायैः शुद्धत्रिषु माया १, निदान २, मिथ्यात्वशल्येषु ३ अकरणेन निःशल्यः, त्रिविधेन कृतकारितानुमतिभिः सावद्यत्यागरूपेण योगेन प्रतिक्रान्तः पापात निवृत्तः पंचमहाव्रतानि रक्षामि । ' इच्चेयं महन्वयउच्चारणं थिरतं सल्लद्धरणं इत्यादि' इच्चेयं महत्वयउच्चारणं थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणट्ठो पावनिवारणं | निकायणा भावविसोही पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया य नाणे परमट्ठो उत्तमट्ठो एस खलु तित्थंकरहिं रइरागदोसमहणेहिं देसिओ पवयणस्स सारो छज्जीवनिकायसंजमं उवएसियं तेलोक्कसक्कयं ठाणं अब्भुवगया । नमो त्थु ते सिद्ध Jain Education Intern For Private & Personal Use Only w .jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy