SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Jain Education I ३, हरीतक्यादि ४, नैव स्वयं रात्रौ भुञ्जे, नैवान्यै रात्रौ भोजये, भुञ्जानानन्यान्वा न समनुजाने । समयक्षेत्रे इति मनुष्यक्षेत्रे समुद्रमाने समयादिप्ररूपणायास्तत्रैव भावनात् परतोऽहोराज्यभावात् । कालतो दिवा रात्रिभोजनं अन्धकारे, संकटसुखे भोजने, संनिधेः परिभोगे वा सति । भावतस्तिक्तादेर्द्रव्यस्यास्वादे, तत्र कषायिले कषायं, अम्बिले अम्लं, लवणे क्षाररसं, अनाहारस्यापि रात्रौ मुखे क्षेपः शय्यायां स्थापनं च रात्रिभोजनमेव, रागेण इच्छया द्वेषेण गुर्वादिषु कलहादिना । तत्र द्रव्यतो निशाभोज्यं न भावात् कारणे रक्ताद्विष्टस्यानुदयेऽस्तमिते वा भुञ्जानस्य न द्रव्यतो भावात् रात्रौ भोजने - च्छयाsप्राप्तौ शेषभङ्गौ स्पष्टौ । रात्रिभोजनं भुक्तं वा परैभजितं वा भुज्यमानं वा परैः समनुज्ञातं तन्निन्दामि स्वसाक्षि, गमि गुरुसाक्षि । त्रिविधं कृतकारितानुमतिभेदं रात्रिभोजनं त्रिविधेन मनआदिना करणेनातीतं निन्दामि, प्रत्युत्पन्नं वर्त्तमानकालसम्बन्धि संवृणोमि त्यजामि, अनागतं भविष्यकालसम्बन्धिरात्रिभोज्यं प्रत्याख्यामि निषिध्ये सर्व रात्रिभोज्यमिति । तथा रात्रौ गृहीतं रात्रौ भुक्तं, रात्रौ गृहीतं दिवा भुक्तं, दिवा गृहीतं रात्रौ भुक्तं, एते त्रयोऽशुद्धाः, दिवा गृहीतं दिवा भुक्तं शुद्धः । ४ । ' छट्ठे भंते वए० ' षष्टं व्रतमाद्यान्त्याहतोरेव ऋजुजडवक्रजडार्थं, विदेहार्हतां मध्यमार्हतां ऋजुप्रज्ञानुदिश्योत्तरगुणेषु स्थापितं, इत्येतानि पञ्च महाव्रतानि रात्रिभोजनविरमणं षष्टं येषां तानि आत्महितार्थाय मोक्षाय उपसम्पद्य स्वीकृत्य विहरामि मासकल्पादिविधिना तिष्ठामि चलामि च । રૂ. अथ महाव्रतदोषानाह - ' अप्पसत्था य जे जोगा ' अप्पसत्थाय जे जोगा, परिणामा य दारुणा । पाणाइवायस्स वेरमणे, एस वुत्ते अइक्कमे ॥१ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy