________________
Jain Education Intern
सहौ कौशिकगोत्रौ यमलबन्धू तयोर्मध्ये बलिस्सहो युगप्रधानोऽभूत् अत आह ' तत्तो' ततो महागिरेरनु बलस्य सदृशवयसं तुल्यवयसं यमलभ्रातृत्वात् बलिस्सहं वन्दे ॥ २७ ॥ ' हारि '
हारियगुतं साइंच, वंदिमो हारियं च सामजं । वंदे कोसियगोत्तं, संडिलं अज्जजीयधरं ॥ २८ ॥
तच्छिष्यं हारीतगोत्रं स्वातिं तच्छिष्यं हारीतगोत्रं श्यामार्य प्रज्ञापनादिग्रन्थकारं, तच्छिष्यं कौशिकगोत्रं शाण्डिल्यं किंभूतं आर्याणां पूर्वसाधूनां जीतं सूत्रं धरतीति तं, अन्ये त्वाहुः - शाण्डिल्यशिष्यं आर्यगोत्रं जीतधराख्यं सूरिं ||२८|| ' तिस'तिसमुद्दखायकित्तिं, दीवसमुद्देसु गहियपेयालं । वंदे अज्जसमुदं अक्खुभियसमुद्दगंभीरं ॥ २९ ॥
पूर्वदक्षिणा परदिकस्थाः त्रयः समुद्राः त्रिसमुद्रं उत्तरतो वैताढ्यः ततः त्रिसमुद्रं यावत् ख्याता कीर्तिर्यस्य द्वीपसमुद्रेषु गृहीतं पेयालं प्रमाणं येन द्वीपसागरप्रज्ञतेः अधिकविज्ञायकत्वात्, अक्षुभितसमुद्रवत् गंभीरं ॥ २९ ॥ ' भण' - भगं करगं झरगं, पभावगं णाणदंसणगुणाणं । वंदामि अज्जमंगुं, सुयसागरपारगं धीरं ॥ ३० ॥
आर्यसमुद्रशिष्यं आर्यमङ्गु, कालिकसूत्रार्थं भणति इति भाणकं, तदुक्तक्रियां करोति इति कारकं, आर्पत्वात् ह्रस्वः, तं ध्यायतीति ध्यायकं ज्ञानं जीवादितत्त्वबोधः, दर्शनं सम्यक्त्वं गुणा मूलगुणादयः तेषां प्रभावकं प्रकर्षेण संपादकं अहं आर्यमंगुं वन्दे किम्भूतम् । श्रुतसागरपारकं, पुनः किम्भूतम् ? धीरम् ॥ ३० ॥ 'वन्दामि'
For Private & Personal Use Only
www.jainelibrary.org