________________
निर्वाण
प्रतिष्ठा
कलिका.
विधि.
॥२४॥
प्रागेव मण्डपं प्रासादस्याग्रतः कारयित्वा तस्य प्राच्यामीशान्यां वा स्नानमण्डपमधिवासनामण्डपार्धेन निवेश्य लघुप्रतिमासु पश्चषट्सप्तहस्तानि तोरणानि इतरासु च वसुवेदाङ्गुलाग्र णि न्यग्रोधोदुम्बराश्वत्थप्लक्षद्रमसमुद्भवानि पूर्वादारभ्य शान्तिभूतिवलारोग्यसंज्ञकानि तोरणान्यस्त्रशुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रैः स्वनामभिरभ्यर्च्य तच्छाखयोर्मेघमहामेघौ कालनीलौ जलाजलौ अचलभूलितौ ह्यणवादिस्वाहान्तः स्वनामभिः सम्पूज्य, ततो द्वारेषु कमलश्वेतइन्द्रप्रायरक्तकृष्णनीलमेघपीतपद्मवर्णाः पताकाश्च दवा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाश्चात्यद्वारेण प्रविशेत् ।
ततः पश्चिमायां पूर्वाभिमुखो वा मण्डपनिरीक्षणप्रेक्षणताडनाभ्युक्षणावकिग्णपूरणसमीकरणसेवनाकुट्टनसन्मार्जनोपलेपनाचक्रीकरणान्तैः कर्मभिः स्वस्वमन्त्रोपेतैः संस्कृत्य चन्दनच्छटाभिः सम्प्रोक्ष्योज्ज्वलस्वच्छभूतान्विचिन्तयन् विनिक्षिप्य पुनस्तान् दर्भकूर्चिकया समाहृत्य मण्डपस्य मध्ये यवारकोपशोभितां छत्रचामरभृङ्गारकलशध्वजणव्यजनसुप्रतीकाष्टमङ्गलकान्वितां वेदी संस्थाप्य, ततो वासुकिनिर्मोकलघुनी प्रत्यग्रवाससी दधानः कराङ्गुलीविन्यस्तकाञ्चनमुद्रिका प्रकोष्ठदेशनियोजितकनककङ्कणः तपसा विशुद्धदेहो वेदिकायामुदङ्मुखमुपविश्य भूतशुद्धिं विधाय सकलीकरणापात्रं कृत्वा इन्द्रादीनां कवचं विधाय सत्पुष्पाक्षतगन्धधूपपक्कानपनोहरं सर्वविघ्नशान्तये स्वयमाचार्य इन्द्रादिमृतिधरैः सह सर्वासु दिक्ष बलि प्रक्षिप्य क्षेत्राधिपं पुष्पधूपाक्षतनैवेद्यदीपादीना सम्पूज्य हस्तौ पादौ च प्रक्षाल्य कृताचमनो वेदिकायामुपविश्य पञ्चवणेन रजसा स्वर्णवाहनायुधालङ्कृतान् लोकपालान् संलिख्य दधिदुर्वाक्षतादि
K॥२४॥
Jan Education Intex al .
II
For Private & Personal Use Only
Tudainelibrary.org