________________
निर्वाणकलिका.
॥२२॥
||५|| अथ शिलान्यास विधिः ॥
तत्र प्रासादक्षेत्रमष्टधा विभज्य चतुष्पष्टिकोष्टकान् कृत्वा चैशान - नैऋत्य मूर्ध्ववंशं आग्नेयाश्च वायव्यान्तं तिर्यवंशद्वयं दत्त्वा द्विपदं षट्पदं च रक्षाष्टकं विन्यस्य मर्माणि ज्ञात्वा ईशानकोणार्थे ईशं दत्त्वा 'पर्जन्यजयमाहेन्द्ररविसत्यभृशान्पदिकान् सम्पूज्य अग्निकोणकोष्ठके व्योमपावको विन्यस्य पूषावितथग्रहक्षतयमगन्धर्व भृङ्गान् पदिकान् दत्त्वा नैऋत्यकोणकोष्टके मृगपितरौ विन्यस्य दौवारिक सुग्रीव पुष्पदन्तवरुण असुरशेषान् पदिकान् सम्पूज्य तदनु वायव्यकोण कोष्टके रोगवायू विन्यस्य नागमुख्य भल्लाटसोमदिति अदित्यन्तान् पदिकान् सम्पूज्य ईशानकोणे अदितिं संपूजयेत् || मध्ये पदचतुष्टये ब्रह्माणं तस्यैशान्यां पदिकौ आप (य) वत्सौ प्राच्यां षट्पदं मरीचि आग्नेय्यां सवितासावित्री पदको दक्षिणस्यां षट्पदं विवस्वन्तं नैॠत्यामिन्द्रजयौ पदिको वारुण्यां षट्पदं मित्रम् वायव्यां रुद्ररुद्रदासौ पदिको उत्तरस्यां पट्पदं धराधरं इति आपवत्सादिक्रमेण दूर्वादध्यक्षतादिभिः सम्पूज्य ईशानादिदिक्षु चरकी स्कन्दा विदारी अर्थमा ललना जम्भा पूतना पापराक्षसी पिलिपिच्छान्तैर्च हिर्देवताष्टकं पूजयेदिति । एकाशीतिपदे गृहवास्तौ मध्ये ब्रह्मा नत्रपदे मरीचाद्याः षट्पदा ईशानाद्याः आपचन्द्राद्या द्विपदाः पदिकावहिर्देवताश्च पूर्ववत्वत्स रक्षादिकं चेति एवं वास्तु सम्पूज्य मर्माणि परिहृत्य शिलाप्रतिष्ठादिकं विदध्यात् ।
|| शिलाप्रतिष्ठाविधि समाप्तः ॥
Jain Educationonal
For Private & Personal Use Only
शिलान्यास विधि.
॥२२॥
*www.jainelibrary.org