SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ ॥१६॥ निषद्यायां समुपविश्य "पटाविंशदुज्ज्वलमहागुणरत्नधुर्य रेतत्पदं प्रथितगोतममुख्यपम्भिः । आसेवितं सकलदाखविमोक्षणाय निर्वाहणीयमशठ भवतापि नित्यम् ॥२॥ आरोप्यते पदमिदं बहुपुण्यभाजो निर्वाहयन्ति च निरन्तरपुण्यभाजः। आराध्य शहविधिना धनमेकमेकं संप्राप्नुवन्ति शनकैः शिवधामसौख्यम॥२॥ नास्मात्पदाजगति साम्प्रतमस्ति किंचिदन्यत्पदं शुभतरं परमं नराणाम् । येनात्र पञ्चपरमेष्ठिपदेषु मध्येऽतिकान्तमाद्ययुगलं खल कालदोषात ॥३॥" इत्यादिवाक्यराचार्योऽनुशास्ति दद्यात् । तदनु भगवत निवेद्य 'आचार्योऽयं त्वदनुज्ञातो मया कृतो भवत्प्रसादादधिकारं निर्विघ्नेन करोतु' इति विज्ञापयेत् । पुनर्भगवते प्रणिपातं कारयित्वा भगवन्तं क्षमापयेत् । 'म लब्धाधिकारी गुरुपारम्पर्यागतमधिकारं कुयोंदिति ॥ एवमनेन विधिना राज्यकामस्य भ्रष्टराज्यस्य पुत्रकामा सौभाग्यकामयोश्चाभिषेकं कुर्यादिति ॥ अत्र शङ्खादीना मन्त्राः। ॐ आंख आनन्दात्मने नमः। एवं शेषा अपि पूर्वोत्तरान्ता विजेयाः । ॐ सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः। रक्षामन्त्रः। सर्वबीजेभ्यः इन्द्रात्मकेभ्यो नमः । जाना सर्वोषधिभ्यः सोमात्मिकाभ्यो नमः । औषधिमन्त्रः। सर्वगन्धेभ्यः पार्षिवात्मकेभ्यो नमः । ॥१६॥ Jain Education Inter! For Private & Personal Use Only wwinelibrary.org
SR No.600015
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorJinendravijay Gani
PublisherBhuvan Sudarshan Jain Granth Mala Devali Rajasthan
Publication Year1981
Total Pages104
LanguageSanskrit
ClassificationManuscript, Literature, & Art
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy