________________
॥१॥ अथ नित्यकर्मविधिः॥
नित्यकर्म
निर्वाणकलिका.
विधि.
॥२॥
तत्रोपासको नमस्कारपूर्वमुत्थाय कृतावश्यको विशुद्धमृदा गुदलिङ्गादीन्प्रक्षाल्य गन्धलेपापनोदेन भावशुद्ध्या शौचं विधाय सकृत् मृदा पादौ हस्तौ च प्रक्षाल्य आचम्य जम्बाम्रादिकाष्ठेन द्वादशाङ्गुलेन कनिष्ठागुलिपरिणाहेन दन्तशुद्धिं विधाय स्नायात् । तत्र शुचिप्रदेशे समुपविश्य मूलमन्त्राभिमन्त्रितफलशेष्वष्टसु नवसु वा तीर्थजलं संकल्प्य श्रीजिनेशमनुस्मरन् स्नात्वा पश्चात्सुगन्धामलकादिना राजोपचारेण चोद्वर्तयेत् । ततो वामहस्ते जलमादाय मूलमन्त्रेणाभिमन्व्य सोमसूर्यो वामदक्षिणहस्तयोः संचिन्त्य मूलमन्त्रेणाञ्जलिमुद्रयात्मानमभिषिच्य शुद्ध वाससी परिधाय स्वीकृतसामान्यापात्रहस्तो द्वारमस्त्रैण संप्रोक्ष्य ऊर्बोदुम्बरे यक्षेशलक्ष्म्यौ नाम्नाभ्यय॑ अस्त्रमुद्रया कालगङ्गे महाकालयमुने आत्मनो वामदक्षिणशाखयोः स्वनाम्ना हृदानने संपूज्य विघ्ननिवा(र्धा रणाय ज्वलन्नाराचास्त्र(चसु)प्रयोगेण पूजागृहस्यान्तः पुष्पं प्रक्षिप्य त्रिपाणिघातैभीमान् , तालत्रयेणान्तरिक्षान्, छोटिकात्रयेण च दिव्यान्विघ्नान्निरस्य, किश्चिदुत्तरशाखाश्रितो देहलीमस्पृशन् दक्षिणपादेनान्तः प्रविश्य देहल्यां विघ्ननिवारणाय पुष्पमस्त्रेण प्रक्षिप्य ब्रह्मस्थाने ॐ वास्तोष्पतये ब्रह्मणे नमः इति ब्रह्माणमभ्यर्य प्रणवेनासनं सम्पूज्य तत्र प्राङ्मुख उदङ्मुखो वोपविश्यास्त्रप्राकारकवचावगुण्ठनाभ्यां पूजागृहं संरक्ष्य का शुद्धिं कुर्यात् ।
तत्र चन्दनलिप्ती हस्तौ परस्पराघर्षणेन तलके पृष्ठे चास्त्रेण संशोध्य वौषडन्तेन मूलमन्त्रणामृतीकृत्याङ्गुष्ठयो.
Kा
॥२॥
Jan Education in
For Private & Personal Use Only
i
brary