SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ ।। १५१२ ।। Jain Education I aleelaaleere onal शान्ते कर्मणि शान्तात्मा क्रूरे क्रूरो भवन्नयम् । शान्त - कूराणि कर्माणि साधयत्येव साधकः ॥ २१० ॥ आकर्षण वशीकारः स्तम्भनं मोहनं द्वतिः । निर्विषीकरणं शान्तिर्विद्वेषोच्चाटनिग्रहाः ॥ २११ ॥ एवमादीनि कार्याणि दृश्यन्ते ध्यानवर्तिनाम् । ततः समरसीभावसफलत्वान्न विभ्रमः ॥ २१२ ॥ यत्पुनः पूरणं कुम्भो रेचनं दहनं प्लवः । सकलीकरणं मुद्रामन्त्रमण्डलधारणाः ॥ २१३ ॥ कर्माधिष्ठातृदेवानां संस्थानं लिङ्गमासनम् । प्रमाणं वाहनं वीर्यं जातिर्नाम द्युतिर्दिशा ॥ २१४ ॥ भुजवक्त्रनेत्रसंख्या भात्रः क्रूरस्तथेतरः । वर्णः स्पर्शः स्वरोऽवस्था व भूषणमायुधम् || २१५ ।। एवमादि यदन्यच्च शान्तराय कर्मणे । मन्त्रवादादिषु प्रोक्तं तद्ध्यानस्य परिच्छदः ॥ २१६ ॥ यात्रिकं फलं किञ्चित् फलमामुत्रिकं च यत् । एतस्य द्वितयस्यापि ध्यानमेवाप्रकारणम् ॥ २१७ ॥ ध्यानस्य च पुनर्मुख्यो हेतुरेतच्चतुष्टयम् । गुरूपदेश: श्रद्धानं सदाभ्यासः स्थिरं मनः || २१८ || " इति दिगम्बर श्री रामसेनमुनिप्रणीते तत्त्वानुशासने । दिगम्बर श्री शुभचन्द्राचार्यविरचिते ज्ञानार्णवे ध्यानसामर्थ्यवर्णनमित्थम्— "अहो अनन्तवीर्योऽयमात्मा विश्वप्रकाशकः । त्रैलोक्यं चालयत्येव ध्यानशक्तिप्रभावतः ॥ १०५५ ।। अस्य वीर्यमहं मन्ये योगिनामप्यगोचरम् । यत्समाधिप्रयोगेण स्फुरत्यव्याहतं क्षणे ॥ १०५६ ॥ अयमात्मा स्वयं साक्षात् परमात्मेति निश्वयः । विशुद्धध्यानर्निधूतकर्मेन्धनसमुत्करः ॥ १०५७ ॥ 1 For Private & Personal Use Only padaas daalee योगशास्त्र स्वोपज्ञ वृत्तौ सप्तमं परिशिष्टम् ।। १५१२ ।। 10 www.jainelibrary.org
SR No.600014
Book TitleYogashastram Part_3
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year1986
Total Pages632
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy