________________
मतान्तरेण वीरासनमाह--
सिंहासनाधिरूढस्यासनापनयने सति ।
तथैवावस्थिति तामन्ये वीरासनं विदुः ॥ १२८ ॥ सिंहासनमधिरूढस्य भूमिन्यस्तपादस्य सिंहासनापनयने सति तथैवावस्थानं वीरासनम् । अन्ये इति सैद्धान्तिकाः कायक्लेशतपःप्रकरणे व्याख्यातवन्तः। पातञ्जलास्त्वाहुः--" ऊर्ध्वस्थितस्यैकतरः पादो भून्यस्त एकश्चाकुश्चितजानुरूर्ध्वमित्येतद् वीरासनम् ।” [ पातञ्जल० तत्त्ववैशारदी २।४६ ] इति ॥ १२८ ॥ अथ पद्मासनम्
जवाया मध्यभागे तु संश्लेषो यत्र जवया ।
पद्मासनमिति प्रोक्तं तदासनविचक्षणैः ॥ १२९ ॥ जङ्घाया वामाया दक्षिणाया वा द्वितीयया जङ्घया मध्यभागे संश्लेषो यत्र तत् पद्मासनम् ॥ १२९॥ अथ भद्रासनम्--
संपुटीकृत्य मुष्काग्रे तलपादौ तथोपरि ।
पाणिकच्छपिकां कुर्याद्यत्र भद्रासनं तु तत् ॥ १३०॥ १ दृश्यतां पृ०९५७-९५८॥ २ दृश्यतां पृ०९५६ ।।
BHEHEREHEHEHREHEHEHCHEHCHEHSHEHEMEHSHCHHEHSICHESTER
10
॥ ९६१।
Jain Education Inte
For Private & Personal Use Only
Diw.jainelibrary.org