SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ चतुर्थः स्वोपक्षवृत्तिविभूषितं योगशास्त्रम् प्रकाशः श्लोकः १२५ ॥ ९५६ ॥ ॥९५६॥ ध्यानसाधनोपयोगि "उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्यामः । तत्र-स्थिरसुखमासनम् ॥२१४६ । तद्यथा-पद्मासनं वीरासनं भद्रासनं स्वस्तिकं दण्डासनं सोपाश्रयं पर्यत कौञ्चनिषदनं हस्तिनिषदनमुष्ट्रनिषदनं समसंस्थानं स्थिरसुखं यथासुखं चेत्येवमादीनि ॥२॥४६॥” इति पातञ्जलयोगदर्शनस्य व्यासप्रणीते भाष्ये। “उत्तरसूत्रमवतारयति-उक्ताः सह सिद्धिभिर्यमनियमाः। आसनादीनि वक्ष्याम इति। तत्र स्थिरसुखमासनम्। स्थिरं निश्चलं यत् सुखं सुखावहं तदासनमिति सूत्रार्थः। आस्यतेऽत्र आस्ते वानेनेत्यासनम् । तस्य प्रभेदानाह-तद्यथेति। पद्मासनं प्रसिद्धम्। स्थितस्यैकतरः पादो भून्यस्त एकतरश्चाकुञ्चितजानोरुपरि न्यस्त इत्ये तद् वीरासनम्। पादतले वृषणसमीपे संपुटीकृत्य तस्योपरि पाणिकच्छपिकां कुर्यात् तद् भद्रासनम् । सव्यमाकुञ्चितं चरणं दक्षिणजजोर्वन्तरे निक्षिपेत् , दक्षिणं चाकुश्चितं चरणं वामजङ्घोर्वन्तरे निक्षिपेत् , एतत् स्वस्तिकम् । उपविश्य श्लिष्टाङ्गुलिको श्लिष्टगुल्फी भूमिश्लिपृजङ्घोरुपादौ प्रसार्य दण्डासनमभ्यसेत् । योगपट्टकयोगात् सोपाश्रयम् । जानुप्रसारितबाहोः शयनं पर्यङ्कः। क्रौञ्चनिषदनादीनि क्रौञ्चादीनां निषण्णानां संस्थानदर्शनात् प्रत्येतव्यानि। पाणिपादाग्राभ्यां द्वयोराकुञ्चितयोरन्योन्यसंपीडनं समसंस्थानम्। येन संस्थानेनावस्थितस्य स्थैर्य सुखं च सिध्यति तदासनं स्थिरसुखम्। तदेतत्तत्रभगवतः सूत्रकारस्य संमतम् । तस्य विवरणम्-यथासुखं चेति ॥२॥४६॥” इति पातञ्जलयोगदर्शनभाष्यस्य वाचस्पतिमिश्रविरचितायां तत्त्ववैशारद्यां टीकायाम्। “सूत्रान्तरमवतारयति-उक्ता इति । स्थिरसुखमासनम्। स्थिरं निश्चलं सुखकरं च यत्तदासनम् , आस्यतेऽनेन प्रकारेणेत्यासनमित्यर्थः।" NEHEHEYENERRHEHEREMEENARRHEHCHEHHHHHHHHHHHHere नामा सनानां स्वरूपम् 10 Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy