SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ स्वोपक्षवृत्तिविभूषितं योगशाचम् द्वितीयः प्रकाशः श्लोकः १२५ ॥४२२॥ ॥४२२॥ दुर्भिक्षे वा सुभिक्षे वा वने जनपदेऽपि वा । शङ्कातङ्काकुलतया धनी सर्वत्र दुःखितः । ११॥ निर्दोषा वा सदोषा वा सुखं जीवन्ति निर्धनाः । बाध्यन्ते धनिनो लोके दोषैरुत्पादितैरपि ॥१२॥ अर्जने रक्षणे नाशे व्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छमल्ललीलां धनं नृणाम् ॥१३।। धिग धनं धनवन्तो यदेकामिषजिघृक्षुभिः । स्वजनैरपि बाध्यन्ते शुनकाः शुनकैरिव ॥१४॥ इत्थमर्थ लभेयाहं रक्षेयं वर्द्धयेय च । कृतान्तदन्तयन्त्रस्थोऽपीत्याशां न त्यजेद्धनी ॥१५॥ पिशाचीव धनाशेयं यावदुच्छ्रङ्खला भवेत् । तावत् प्रदर्शयेन्नृणां नानारूपां विडम्बनाम् ॥१६॥ यदीच्छसि सुखं धर्म मुक्तिसाम्राज्यमेव च। तदा परपरीहारादेकामाशां वशीकुरु ॥१७॥ स्वर्गापवर्गनगरप्रवेशप्रतिरोधिनी । अभेद्या बज्रधाराभिराशैव हि महार्गला ॥१८॥ आशैव राक्षसी पुंसामाशैव विषमभरी । आशैव जीर्णमदिरा धिगाशा सर्वदोषभूः ॥१९॥ ते धन्याः पुण्यभाजस्ते तैस्तीर्णः क्लेशसागरः । जगत्संमोहजननी यैराशाऽऽशीविषी जिता ॥२०॥ पापवल्ली दुःखखानि सुखाग्निं दोषमातरम् । आशां निराशीकुरुते यस्तिष्ठति सुखेन सः ॥२१॥ आशादवाग्नेमहिमा कोऽपि लोकपथातिगः। धर्ममेघ समाधि यो विध्यापयति तत्क्षणात् ।।२२।। दीनं जल्पन्ति गायन्ति नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः पुमांसो धनिनां पुरः ॥२३॥ न यान्ति वायवो यत्र नाप्यन्दुमरीचयः। आशामहोमयः पुंसां तत्र यान्ति निरर्गलाः ॥२४॥ Jain Education Int l For Private & Personal Use Only |vww.jainelibrary/prg
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy