SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ||४१२|| Jain Education Inter अभयस्यैव मायेयं वयं नेशकारिणः । प्रत्यायितः सशपथं तैरथोज्जयिनीपतिः ॥ १०४ ॥ कदाचिदूचेऽवन्तीशो मध्येसभममर्षणः । योऽर्पयत्यभयं बद्ध्वा मम सम्पत्स्यते स किम् ॥ १०५ ॥ पताकं हस्तमुत्क्षिप्य कायेका गणिका ततः । व्यजिज्ञपदवन्तीशमलमस्मीह कर्मणि ॥ १०६ ॥ तामादिदेशावन्तीशो यद्येवमनुतिष्ठ तत् । करोम्यर्थादिसाहाय्यं ब्रूहि किं तव संप्रति ? ॥१०७॥ सा च दध्यौ यदभयो नोपायैर्गृह्यतेऽपरैः । धर्मच्छ तदादाय साधयामि समीहितम् ॥१०८॥ अयाचत ततश्च द्वे द्वितीयवयसौ स्त्रियौ । ते तदैवापयद्राजा ददौ द्रव्यं च पुष्कलम् ॥। १०९ ।। कृतादराः प्रतिदिनमुपास्योपास्य संयताः । बभ्रुवुरुत्कटप्रज्ञास्तास्तिस्रोऽपि बहुश्रुताः ॥ ११० ॥ तास्तिस्रोऽपि ततो जग्मुः श्रेणिकालङ्कृतं पुरम् । जगत्रयीं वञ्चयितुं मायाया इव मूर्त्तयः ॥ १११ ॥ वाद्याने कृतावासासा पणस्त्रीमतल्लिका । पतनान्तर्ययौ चैत्यपरिपाटीचिकीर्षया ॥ ११२ ॥ सा विभूत्यातिशायिन्या चैत्ये नृपतिकारिते । प्रविवेश समं ताभ्यां कृत्वा नैषेधिकीत्रयम् ॥ ११३॥ मालवकैशिकमुख्यभाषामधुरया गिरा । देवं वदितुमारे सपर्या विरचय्य सा ॥ ११४॥ तत्राभयकुमारोऽपि यौ देवं विवन्दिषुः । आत्मतृतीयां तामग्रे वन्दमानां ददर्श च ॥ ११५ ॥ देवदर्शन विनोऽस्या मा भृत् प्रविशता मया । द्वार्येवेत्यभयस्तस्थौ मण्डपान्तर्विवेश न ॥ ११६॥ १ संयती: - त्रिषष्टि० १० । ११ । १३९ ।। For, Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ११४ ॥४१२॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy