SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृति विभूषितं योगशास्त्रम् 1122011 Jain Education In अनुस्मरन्ती भृङ्गीव स्वत्पादाम्भोजसङ्गमम् । स्वामिन्नायुष्मती मेऽम्बा बाह्योद्यानेऽस्ति संप्रति || ७८ || ततो नन्दां समानेतुममन्दानन्दकन्दलः । न्ययुङ्क्त सर्वसामग्रीम ग्रे कृत्य नृपोऽभयम् ॥ ७९ ॥ ततः स्वयमपि प्राज्योत्कण्ठोल्लिखितमानसः । नन्दामभिययौ राजा राजहंस इवाब्जिनीम् ||८०|| शिथिलीभूतवलयां कपोललुलितालकाम् | अनञ्जनाक्षीं कवरीधारिणीं मलिनांशुकाम् ||८१|| तनोस्तनिम्ना दधतीं द्वितीयेन्दुकलातुलाम् । ददर्श राजा सानन्दो नन्दामुद्यानवासिनीम् ॥८२॥ [ युग्मम् ] नन्दामानन्द्य नृपतित्वा च स्वं निकेतनम् । पट्टराज्ञीपदेऽकार्षीत् सीतामिव रघूद्वहः ||८३|| भक्तितः पितरि स्वस्य पदातिपरमाणुताम् । मन्वानः साधयामास दुःसाधान् भूभुजोऽभयः ॥ ८४ ॥ अन्यदोञ्जयिनी पुर्याश्चण्ड प्रद्योत भूपतिः । चलितः सर्वसामग्रथा रोद्धुं राजगृहं पुरम् ||८५ || प्रद्योतो बद्धमुकुटाचतुर्दश परे नृपाः । तत्राऽऽयान्तो जनैर्दृष्टाः परमधार्मिका इव ॥ ८६ ॥ पापप्लुतैरश्वैः पाटयन्निव मेदिनीम् । आगच्छन् प्रणिधिभ्योऽथ शुश्रुवे श्रेणिकेन सः ||८|| किञ्चिञ्च चिन्तयामास प्रद्योतोऽद्य समापतन् । क्रूर ग्रह इव क्रुद्धः कार्यों हतबलः कथम् ||८८|| ततोऽभयकुमारस्योत्पत्तिक्यादिधियां निधेः । नृपतिर्मुखमैक्षिष्ट सुधामधुरया दृशा || ८९ ॥ यथार्थनामा राजानमभयोsथ व्यजिज्ञपत् । का चिन्तोञ्जयिनीशोऽद्य भूयाद्धातिथिर्मम ॥९०॥ १ १ ज्जयनी खं । एवमग्रेऽपि । त्रिषष्टि० १० । ११ । ११४-१८३ ।। २ याता खं. ॥ ३ पषोऽत्र रभसापतन् शां. ॥ For Private & Personal Use Only द्वितीय: प्रकाश: श्लोक ११४ ॥ ४१० ॥ 5 10 www.jainelibrary.org
SR No.600012
Book TitleYogashastram Part_1
Original Sutra AuthorHemchandracharya
AuthorJambuvijay, Dharmachandvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages502
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy