________________
स्वोपज्ञ
वृत्ति
विभूषितं योगशास्त्रम्
द्वितीयः प्रकाश: श्लोकः ११४ ॥४०६॥
॥४०६॥
कककककककककककककककककककककककककककर
अद्यावितथपुण्यस्य कस्यातिथिरसीत्यथ । श्रेणिकः श्रेष्ठिना पृष्टो भवतामित्यभाषत ॥२७॥ नन्दायोग्यो वरो दृष्टः स्वप्नेऽद्य निशि यो मया । असौ साक्षात् स एवेति श्रेष्ठी चेतस्यचिन्तयत् ॥२८॥ सोऽभाषिष्ट च धन्योऽस्मि यद् भवस्यतिथिर्मम । असावलसमध्येन ननु गङ्गा समागता ॥२९॥ संवृत्याट्ट ततः श्रेष्ठी तं नीत्वा निजवेश्मनि । स्नपयित्वा परिधाप्य सगौरवमभोजयत् ॥३०॥ एवं च तिष्ठस्तद्गेहे श्रेणिकः श्रेष्ठिनाऽन्यदा। कन्यां परिणयेमां मे नन्दां नाम्नेत्ययाच्यत ॥३१॥ ममाज्ञातकुलस्यापि कथं दत्से सुतामिति । श्रेणिकेनोक्त ऊचे स ज्ञातं तव गुणैः कुलम् ॥३२॥ ततस्तस्योपरोधेनोदधेखि सुतां हरिः। श्रेणिकः पर्यणेषीतां भवद्भवलमङ्गलम् ॥३३॥ भुआनो विविधान् भोगान् सह वल्लभया तया। अतिष्ठच्छेणिकस्तत्र निकुञ्ज इव कुअरः ॥३४॥ श्रेणिकस्य स्वरूपं तद्विवेदाशु प्रसेनजित् । सहस्राक्षा हि राजानो भवन्ति चरलोचनैः ॥३५॥ उग्रं प्रसेनजिद्रोगं प्रापाऽथाऽन्तं विदन्निजम् । सुतं श्रेणिकमानेतुं शीघ्रानादिक्षदौष्टिकान् ॥३६॥ औष्ट्रिकेभ्यो ज्ञातयाऽऽतः पितुरत्यतिवार्तया । नन्दा संबोध्य सस्नेहं प्रतस्थे श्रेणिकस्ततः ॥३७॥ वयं पाण्डुरकुड्या गोपाला राजगृहे पुरे। आह्वानमन्त्रप्रतिमान्यक्षराणीति चार्पयत् ॥३८॥ माऽन्या तातस्य रोगार्तेर्मदति दिति द्रुतम् । उष्ट्रीं श्रेणिक आरुह्य ययौ राजगृहं पुरम् ॥३९॥ १ स तं श्रे खं । ततः श्रे शां. त्रिषष्टि० १० । ६ । १३४॥ २ ज्ञातवार्त: ग. त्रिषष्टिः १०। ६ । १३५ ॥
Jain Education in
al
For Private & Personal use only
|www.jainelibrary.org