________________
सवृत्तिके धर्मबिन्दौ
षष्ठं परिशिष्टम्
२८७
स्वजनाश्चर्षभदत्तमूचुर्भो परमार्हत । प्राणिमात्रसाधारण्या दयया जीवयानुजम् ॥२७६॥ पात्र कीर्तेर्विशुद्धायाः स बन्धुः स च नायकः । यो बन्धुं सेवकं चाभ्युद्धरते व्यसनावटात् ॥ २७७॥ ऋषभोऽप्यभ्यधाद्गत्वावरजं स्वजनेरितः । समाश्वसिहि हे वत्स त्रास्ये त्वामौषधादिभिः ॥२७८॥ जगाद जिनदासोऽपि क्षमस्व मम दुर्नयान् । कार्यमामुष्मिकं कुर्या जीवितव्यास्पृहस्य मे ॥ २७९ ॥ प्रयच्छ परलोकाध्वप्रस्थितस्य ममाधुना । धर्मोपदेशपाथेयमार्यानशनपूर्वकम् ॥ २८० ॥ ऋषभोऽप्यन्वशादेवमनुजं निर्ममो भव । जप स्वच्छमनाः पञ्चपरमेष्ठिनमस्क्रियाम् ॥ २८९ ॥ एवमाद्यनुशिष्यानुजन्मानमृषभः स्वयम्। आराधनां सानशनां कारयामास शुद्धधीः ॥ २८२॥ विपद्य जिनदासोऽपि तेन पण्डितमृत्युना । जम्बूद्वीपाधिपो जज्ञे देवोऽयं परमर्द्धिकः ॥ २८३ ॥ अयं चास्मद्वचोऽश्रौषीद्यद्राजगृहपत्तने । केवली चरमो भावी जम्बूर्ऋषभदत्तजः ||२८४|| श्रुत्वा केवलिनो भावि स्वे कुले जन्म पावनम् । देवोऽयमेवं स्वकुलप्रशंसां कुरुतेतमाम् ॥ २८५॥ राजापृच्छत्पुनर्विद्युन्माल्येष भगवन्सुरः । किं सुरेष्वतितेजस्वी ग्रहेष्विव दिवाकरः ॥ २८६ ॥ आचख्यौ प्रभुरप्येवं जम्बूद्वीपस्य भारते । मगधाख्ये जनपदे ग्रामे सुग्रामनामनि ॥२८७॥ आर्यवान् राष्ट्रकूटोऽभूत्तस्य पत्नी तु रेवती । भवदत्तो भवदेवश्चाभूतां तनयौ तयोः ॥ २८८॥ युग्मम् | भवदत्तो भवाम्भोधेरुत्तारणतरीं दृढाम् । यौवनेऽप्याददे दीक्षां सुस्थिताचार्यसन्निधौ ॥२८९॥ स व्रतं पालयन्खड्गधारोग्रं श्रुतपारगः । व्यहरद्गुरुणा सार्धं द्वैतीयकीव तत्तनुः ||२९०||
तस्मिन्गच्छे साधुरेकोऽन्यदाचार्यान्व्यजिज्ञपत् । अनुजानीत मां यामि यत्र बन्धुजनोऽस्ति मे ॥ २९९ ॥ तत्रास्ति मे लघुभ्राता स भृशं स्नेहलो मयि । प्रव्रजिष्यति मां दृष्ट्वा प्रकृत्याग्रेऽपि भद्रकः ॥ २९२ ॥ ततस्तं श्रुतभृत्साधुसमेतं गुरुरादिशत् । परनिस्तारणपरे गुरुः शिष्ये हि मोदते ॥ २९३ ॥
Jain Education International
For Private & Personal Use Only
| मरुदेव्यादीनां
कथा:
२८७
www.jainelibrary.org