SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ चतुर्थं परिशिष्टम् २४५ व्यापाराणां हलशकटगृहकर्मादीनामकरणम्, तत्र चाव्यापारविषयो यो देशत: पोषधं करोति स सामायिकं करोति वा न वा, यस्तु सर्वत: पोषधं करोति स नियमात् सामायिकं करोति, यदि न करोति तदा तत्फलेन वञ्च्यते, तच्च क्व कथं वा करोतीति ?, उच्यते, चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा, उन्मुक्तमणिसुवर्णो व्यपगतमालावर्णकविलेपनाहरणः, तत्र च कृते पठति पुस्तकं वा वाचयति, धर्मध्यानं वा ध्यायति, यथैतान् साधुगुणानहं न समर्थों मन्दभाग्यो धारयितुमित्यादिविभाषेति, इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवदव्यापारपोषधमपि अन्यत्रानाभोगेन'इत्याद्याकारोच्चारणपूर्वकं प्रतिपद्यते तदा सामायिकमपि सार्थकं भवति, स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच्च सामायिकस्येति, तथा पोषधवताऽपि सावधव्यापारा न कार्या एव, तत: सामायिकमकुर्वंस्तल्लाभात् भ्रश्यतीति, यदि पुन: सामाचारीविशेषात् सामायिकमिव द्विविधंत्रिविधेनेत्येवं पोषधं विशिष्टानि प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत्, यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेति भावात्फलवदिति टिप्पणानि गाथार्थः ॥२९॥ अत्रातिचारानाह - अप्पडिदुप्पडिलेहियऽपमज्जसेज्जाइ वज्जई एत्थ । संमं च अणणुपालणमाहाराईसु सव्वेसु ॥३०॥ अप्पडि० गाहा। इह सूचनात्सूत्र'मिति न्यायात् पदावयवेषु पदसमुदायोपचाराद्वा अप्पडित्ति अप्रत्युपेक्षितम्, दुप्पडिलेहियंति दुष्प्रत्युपेक्षितं च अपमज्जत्ति अप्रमार्जितं दुष्प्रमार्जितं च यच्छय्यादि तदप्रत्युपेक्षिताप्रमार्जितदुष्प्रमार्जितशय्यादि, आदिशब्दात्संस्तारकोच्चारप्रश्रवणभूमिपरिग्रहः, तद्वर्जयति परिहरते, अत्र तृतीयशिक्षाव्रते, अनेन गाथार्थेन चत्वारोऽतिचारा दर्शिताः, तद्यथा-अप्पडिलेहियदुप्पडिलेहियसेज्जासंथारए १ अप्पमज्जियदुप्पमज्जियसेज्जासंथारए २ अप्पडिलेहियदुप्पडिलेहियउच्चारपासवणभूमी ३ अप्पमज्जियदुप्पमज्जियउच्चारपासवणभूमी ४[ ] इति, व्यक्ताश्च नवरमप्रत्युपेक्षित: चक्षुषा न निरीक्षितः, दुष्प्रत्युपेक्षितो विभ्रान्तचेतसा निरीक्षितः, शय्यासंस्तारकः शयनार्थः संस्तारक: पौषधिकोपयोगी दर्भकुशकम्बलीवस्त्रादिः, अथवा शय्या शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारक: अर्धतृतीयहस्तपरिमाणः, अस्मिंश्च पक्षे समाहारद्वन्द्वो व्याख्येय:, उपलक्षणं चैतत्पीठकादेः, तथाऽप्रमार्जितो रजोहरणादिना दुष्प्रमार्जितोऽनुपयुक्ततयेति, ननु किं पौषधिकस्य रजोहरणमस्ति ?, अस्तीति ब्रूमः, यतः सामायिकसामाचारी भणताऽऽवश्यकचूर्णीकृतोक्तं-रओहरणेणं पमज्जइ, जओ साहूणं उग्गहियं रओहरणमत्थि तं मग्गति, असति पोत्तस्स अंतेणं [ ]ति, उच्चारप्रश्रवणभूमि: पुरीषमूत्रोत्सर्गस्थण्डिलमिति, इह पुनर्वृद्धोक्ता सामाचारी-कृतपोषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पोषधशालां वा । | २४५ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy