________________
श्रीपञ्चव.
प्रतिदिन
क्रिया २
॥ ३८ ॥
Jain Education Int
उवगरण वत्थपत्ते वत्थे पडिलेहणं तु वच्छामि । पुवण्हे अवरण्हे मुहपत्तिअमाइपडिलेहा ॥२३२॥
उपकरणमधिकृत्य प्रत्युपेक्षणा वस्त्रपात्रे - वस्त्रपात्रविषया, तत्र प्रव्रज्याग्रहणकाले प्रथममेव यथाजातरजोहरणादिभावात् 'वस्त्रैषणा पात्रपणे 'ति च सूत्रक्रमप्रामाण्याद्वस्त्रविषयां प्रत्युपेक्षणां विशिष्टक्रियारूपां तावद्वक्ष्ये, तत्क्रममाह - पूर्वाह्ने - प्रत्यूपसि अपराह्ने- चरमपौरुभ्यां मुखवस्त्रिकाद्या - मुखवस्त्रिकामादौ कृत्वा प्रत्युपेक्षणा प्रवर्त्तत इति गाथार्थः ॥ ३२ ॥ अत्र च वृद्धसम्प्रदायः - काए आणुपुवीए वत्था पडिलेहेअवा ?, मुहपोत्ती पुव्वं ताहे कायं रयहरणं चोलपट्ट्यं ताहे गुरुस्स उट्ठाइ, ताहे गिलाणस्स सेहस्स, ताहे अप्पणोच्चए कप्पे विंटिया, ताहे उत्तरपट्टयं संधारपट्ट्यं, जं च गुरुनिउत्तं'ति, तत्पुनरनेन विधिना वस्त्रं प्रत्युपेक्षितव्यमित्येतदाह
उ थिरं अतुरिअं सवं ता वत्थ पुवपडिलेहा |
तो वीअं पप्फोडे तइअं च पुणो पमज्जिज्जा ॥ २३३ ॥ पडिदारगाहा ॥
ऊर्ध्व वस्त्रोर्ध्व कायर्द्धापेक्षया सम्यक् स्थिरं घनग्रहणेन अत्वरितम् अद्भुतं वक्ष्यमाणलक्षणेन विधिना सर्व तावद्वस्त्रम् आरतः परतश्च पूर्व-प्रथमं प्रत्युपेक्षेत-चक्षुषा निरीक्षेत, ततः - तदनन्तरं द्वितीयमिदं कुर्यात्, यदुत परिशुद्धं सत् प्रस्फोटयेत् वक्ष्यमाणेन विधिना, तृतीयं च पुनरिदं कुर्यात् यदुत प्रमार्जयेत् वक्ष्यमाणेनैव विधिनेति गाथा समुदायार्थः ॥ ३३ ॥ व्यासार्थं त्वाह
For Private & Personal Use Only
प्रतिलेखना द्वारम्
॥ ३८ ॥
www.jainelibrary.org