________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे
॥ २३४ ॥
Jain Education Inty
'च मार्गप्रतिपन्नाः साधवस्तांश्च दूषयति, 'अबुधः' अविद्वान् जात्यैव, न परमार्थेन, भण्यतेऽसावेवम्भूतः 'मार्गदूषकः' पाप इति गाथार्थः ॥ ५७ ॥ मार्गविप्रतिपत्तिमाह यः पुनस्तमेव मार्ग - ज्ञानादिं दूषयित्वा अपण्डितः सन् स्वतर्कयाजातिरूपया देशे उम्मार्ग प्रतिपद्यते, देश एव विप्रतिपत्तिरिति गाथार्थः ॥ ५८ ॥ मोहमाह - 'तथा तथा' चित्ररूपतया उपहतमतिः सन् मुह्यति ज्ञानचरणान्तरालेषु गहनेषु, ऋद्धीश्च बहुविधा दृष्ट्वा परतीर्थिकानां यतो मुह्यत्यसौ मोह इति गाथार्थः ॥ ५९ ॥ मोहयित्वेति व्याचिख्यासुराह - यः पुनर्मोहयति 'परम्' अन्यं प्राणिनं 'सद्भावेन वा' तथ्येन वा, तथा 'कैतवेन वा' परिकल्पितेन, 'समयान्तरे' परसमये मोहयति, स पुनरेवम्भूतः प्राणी मोहयित्वेति गृह्यतेऽनेन द्वारगाथावयवे - नेति गाथार्थः ॥ ६० ॥ आसां भावनानां फलमाह - एता भावना 'भावयित्वा' अभ्यस्य देवदुर्गतिं यान्ति प्राणिनः, ततस्तस्या अपि च्युताः सन्तः देवदुर्गतेः पर्यटन्ति 'भवसागरं' संसारसमुद्रमनन्तमिति गाथार्थः ॥ ६१ ॥ प्रकृतोपयोगमाह - एता भावना विशेषेण परिहरति, चरणविघ्नभूताः एता इति एतन्निरोधादेव कारणात् सम्यक् चरणमपि प्राप्नोति, प्रस्तुतानशनीति गाथार्थः ॥ ६२ ॥
आहण चरणविरुद्धा एआओ एत्थ चैव जं भणिअं । जो संजओऽवि भइओ चरणविहीणो अ इच्चाई १६६३ विवहारणया चरणं एआसुं जं असंकिलिट्ठोऽवि । कोई कंदप्पाई सेवइ ण उ णिच्छयणएणं ॥ १६६४ ॥ अक्खंड गुणठाणं इट्ठ एअस्स नियमओ चेव । सइ उचियपवित्तीय सुत्तेऽवि जओ इमं भणियं ॥ १६६५ ॥
For Private & Personal Use Only
संमोहनी
भावना १६५५
६२ चरणविरोधेतरौ
॥ २३४ ॥
www.jainelibrary.org