________________
श्रीपञ्चव. ५ वस्तुनि अभ्युद्यतमरणे
आभियो गिकीभा.
॥२३२॥
ABCDCHADCAUSADAK
विस्मापन' बालस्नपनं 'होमम्' अग्निहवनं 'शिरःपरिरया' करभ्रमणाभिमन्त्रणं, आदिशब्दः स्वभेदप्रख्यापकः, बालस्नपनादीनामनेकप्रकारत्वात् , 'क्षारदहनानि' तथाविधव्याधिशमनाय 'धूपश्च' योगगर्भः असदृशवेषग्रहणानि-नार्यादेरनार्यादिनेपथ्यकरणानि, 'अवत्रासनं' वृक्षादीनां प्रभावेन चालनम् , अवस्तम्भनम्-अनिष्टोपशान्तये स्तेनुकनिष्ठीवनाथुक्करणं, एवं बन्धमन्त्रादिना प्रतिबन्धनं, कौतुकमिति गाथार्थः॥ ४३ ॥ भूतिकर्माण्याह-'भूत्या' भस्मरूपया 'मृदा वा-आर्द्रपांसुलक्षणया सूत्रेण वा प्रसिद्धेन भवति 'भूमिकर्म परिरयवेष्टनरूपं, किमर्थमित्याह-वसतिशरीरभण्डकरक्षेतिएतद्रक्षार्थम् , अभियोगादय इतिकृत्वा, तेन कृतेन तद्रक्षार्थ, कर्तुरिति गाथार्थः॥४४॥प्रश्नस्वरूपमाह-प्रश्नस्तु भवति पाठादिरूपःप्रश्न इति, यत्पश्यति वा 'स्वयं आत्मना तुशब्दादन्ये च तत्रस्थाः प्रस्तुतं वस्तु तत्प्रश्न इति, व तदित्याहअङ्गुष्ठोत्सिष्टपद इत्यङ्गुष्ठपदे उत्सिष्टः कासारादिभक्षणेन, एवं 'दर्पणे' आदर्श 'असौ' च खरे 'तोये' उदके 'कुड्डे' भित्तौ, आदिशब्दान्मदनफलादिपरिग्रहः, 'क्रुद्धादि' क्रुद्धः प्रशान्तो वा पश्यति कल्पविशेषादिति गाथार्थः ॥ ४५ ॥ प्रश्नाप्रश्नमाह-प्रश्नाप्रश्नोऽयमेवंविधो भवति यः स्वमे 'विद्याशिष्टं' विद्याकथितं सत् कथयत्यन्यस्मै शुभजीवितादि, अथवा आईखणिय'त्ति ईक्षणिका दैवज्ञा आख्यात्री लोकसिद्धा डोम्बी, घण्टिकाशिष्ट-घण्टिकायां स्थित्वा घण्टिकायक्षेण कथितं परिकथयति, एष वा प्रश्नाप्रश्न इति गाथार्थः॥४६॥ निमित्तमाह-त्रिविधं भवति निमित्तं कालभेदेनेत्याह-अतीतं प्रत्युत्पन्नमनागतं चैव, तीतादिविषयत्वात्तस्य, अत्र शुभाशुभभेदमेतल्लोके, कथमित्याह-अधिकरणेतरविभाषया, यत्साधिकरणं तदशुभमिति गाथार्थः॥४७॥ एतानि' भूतिकर्मादीनि 'गौरवार्थ गौरवनिमित्तं कुर्वन् ऋषिः 'आभियोगि
ORREARRARAM
॥२३२॥
For Private & Personal Use Only
Jain Education inte
Musww.jainelibrary.org