________________
Jain Education Inter
कन्दर्पी कैल्aिषिकी अभियोगिकी आसुरी च सम्मोहनी, कन्दर्पादीनामियमिति सर्वत्र भावनीयम् एषा तु सङ्कक्लिष्टा पञ्चविधा भावना भणिता, तत्तत्स्वभावाभ्या सो भावनेति गाथार्थः ॥ २८ ॥ यः संयतोऽपि सन् व्यवहारतः एतास्वप्र - शस्तासु भावनासु वर्त्तते कथञ्चिद् भावमान्यात् स तद्विधेषु गच्छति सुरेषु कन्दर्पादिप्रकारेषु, भाज्यश्चरणहीनः - सर्वथा तत्सत्ताविकलः द्रव्यचरणहीनो वेति गाथार्थः ॥ २९ ॥ तत्र - कन्दर्पवान् कन्दर्पः, एवं कौकुच्यः द्रुतदर्पशीलश्चापि हासकरश्च तथा विस्मापयंश्च परान् कान्दप भावनां करोतीति गाथार्थः ॥ ३० ॥ कन्दर्पवान् कान्दप भावनां करोतीत्युक्तं, स च यस्य कहकहकहस्येति 'सुपां सुपो भवन्ती'ति तृतीयार्थे षष्ठी, कहकहकहेन हसनं, अट्टट्टहास इत्यर्थः, तथा कन्दर्पः-परिहासः स्वानुरूपेण, अनिभृताश्च संलापाः, गुर्वादिनापि निष्ठुरवक्रोक्त्यादयः, तथा कन्दकथाकथनं - कामकथाग्रहः, तथा कन्दर्पोपदेशो - विधानद्वारेण एवं कुर्विति, शंसा च-प्रशंसा च कन्दर्पविषया यस्य स कन्दर्पवान् ज्ञेय इति गाथार्थः ॥ ३१ ॥ कौकुच्यवन्तमाह - भ्रूनयनादिभिर्देहावयवैः वचनैश्च तैस्तैर्हासकारकैः तथा चेष्टां करोति क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव- गात्रपरिस्पन्द वद् हसति परः तद्रष्टा, आत्मनाऽहसन्, अभिन्नमु खराग इव, य एवंविधः स कौक्रुच्यवानिति गाथार्थः ॥ ३२ ॥ द्रुतदर्पशीलमाह - भाषते द्रुतं द्रुतमसमीक्ष्य, सम्भ्र मावेगाद् गच्छति च द्रुतं द्रुतमेव, 'दर्पित इव' दप्पर इव 'गोवृषभो' बलीवर्द्दविशेषः शरदि काले, तथा सर्वद्रुत - कारी असमीक्ष्यकारीतियावत्, तथा स्फुटतीव तीव्रोद्रेकविशेषात् स्थितोऽपि सन् 'दर्पण' कुत्सितबलरूपेण, य इत्थम्भूतः स द्रुतदर्पशील इति गाथार्थः ॥ ३३ ॥ हासकरमाह-वेषवचनैः तथा चित्ररूपैर्हासं जनयन् आत्मनः परेषां च
For Private & Personal Use Only
www.jainelibrary.org