________________
पञ्चव. ३
Jain Education
योगः तुर्विशेषणार्थः, किं विशिनष्टि ? - स्वप्रक्रियामाश्रित्यैवं, तन्त्रान्तरं त्वाश्रित्य भवाभिनन्दिनी अविद्या परिगृह्यते, सम्भावनीयदोषाः तावत् चरमदेहा अपि-पश्चिमशरीरा अपि तिष्ठन्तु तावदन्य इति गाथार्थः ॥ ६३ ॥ यतश्चैवम्— तम्हा न दिक्खिअवा केइ अणिअट्टिबायरादारा । ते न य दिक्खाविअला पायं जं विसममेति ॥ ६४ ॥
यस्मादेवं तस्मान्न दीक्षितव्या न प्रत्राजनीयाः केचिद् अनिवृत्तिवादरेभ्य आरात् - क्षपकश्रेणिप्रक्रमे यावदनिवृत्तिबादरा न संजातास्तावन्न दीक्षितव्या इति स्वप्रक्रियानुसारेण, तन्त्रान्तरपरिभाषया त्वानन्दशक्त्यनुबोधेनावाप्ताणिमादिभावेभ्य आरादिति, ते च - अनिवृत्तिवादराः अवाप्ताणिमादिभावा वा न दीक्षाविकलाः - न प्रव्रज्याशून्याः प्रायः तत्रान्यत्र वा जन्मनि द्रव्यदीक्षामप्याश्रित्य मरुदेवीकल्पाश्चर्यभावव्यवच्छेदार्थं प्रायोग्रहणम्, एतच्च तन्त्रान्तरेऽपि स्वपरिभाषया | गीयत एव 'अत्यन्तमनवाप्तकल्याणोऽपि कल्याणं प्राप्त' इति वचनात् यद् - यस्मादेवं विषममेतत् ततः तस्माद् विषमं सङ्कटमेतत् किमुक्तं भवति ? - दीक्षाव्यतिरेकेण विशिष्टगुणा न भवन्ति तद्व्यतिरेकेण च न दीक्षेतीतरेतराश्रयविरोधः इति गाथार्थः ॥ ६४ ॥ अन्यदुच्चार्य समतां दर्शयन्नाह -
विष्णायविसयसंगा जमुत्तमिच्चाइ तंपि णणु तुलं । अण्णायविसयसंगावि तग्गुणा केइ जं हुंति ॥ ६५ ॥ विज्ञातविषयसङ्गा यदुक्तमित्यादि पूर्वपक्षवादिना तदपि ननु तुल्यं मत्पक्षेऽपि कथमित्याह - अज्ञातविषयसङ्गा अपि तद्गुणाः- विज्ञातविषय सङ्गगुणाः केचन प्राणिनो यद् - यस्माद् भवन्ति इति गाथार्थः ॥ ६५ ॥ स्वपक्षोपचयमाह -
onal
For Private & Personal Use Only
अभुक्तभोगानां दीक्षा गा. ६४-६५
www.jainelibrary.org