________________
Jain Education Inter
पक्षिपत्रोपकरणे - अमुकस्तोकोपधौ गच्छारामात् सुखसेव्याद्विनिर्गते 'तस्मिन्' जिनकल्पिके चक्षुर्विषयमतीते - अदर्शनीभूते आगच्छन्ति स्ववसतिमानन्दिताः साधवः, तत्प्रतिपत्येति गाथार्थः ॥ १९ ॥
आभोएउं खेत्तं णिवाघाएण मासणिवाहिं । गंतूण तत्थ विहरइ एस विहारो समासेण ॥ १४२० ॥ 'आभोज्य' विज्ञाय क्षेत्रं निर्व्याघातेन हेतुभूतेन 'मासनिर्वाहि' मासनिर्वहणसमर्थ, गत्वा तत्र क्षेत्रे विहरति-स्वनीतिं पालयति, एष विहारः समासेनास्य भगवत इति गाथार्थः ॥ २० ॥
I
एत्थ य सानायारी इमस्स जा होइ तं पवक्खामि । भयणाऍ दसविहाए गुरूवएसानुसारेण ॥ १४२१ ॥ अत्र च क्षेत्रे सामाचारी- स्थितिरस्य या भवति जिनकल्पिकस्य तां प्रवक्ष्यामि 'भजनया' विकल्पेन दशविधायां सामाचार्या वक्ष्यमाणायां गुरूपदेशानुसारेण, न स्वमनीषिकयेति गाथार्थः ॥ २१ ॥ दशविधामेवादावाह
इच्छा मिच्छ तहकार आवस्सि निसीहिया य आपुच्छा ।
पडिपुच्छ छंदण णिमंतणा य उवसंपया चेव ॥ १४२२ ॥
इच्छा मिथ्या तथा तथाकार इति, कारशब्दः प्रत्येकमभिसम्बध्यते, इच्छाकारो मिथ्याकारः तथाकार इति, तथा परभणने सर्वत्रेच्छाकारः, दोषचोदने मिथ्याकारः, गुर्वादेशे तथाकारः, तथा आवश्यकी नैषेधिकी च आपृच्छा, वसतिनिर्गमे आवश्यकी, प्रवेशे नैषेधिकी, स्वकार्यप्रवृत्तावापृच्छा, तथा प्रतिपृच्छा छन्दना निमन्त्रणा च तत्रादिष्टकरण
For Private & Personal Use Only
www.jainelibrary.org