________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १९५ ॥
Jain Education Intert
अथ 'समयविधानेन' सिद्धान्तनीत्या पालयत्यसौ गणमेव शेषकृत्यरहितो मध्यस्थः सन् निष्पादयति चान्यान् शिष्यान् निजगुणसदृशान् - आत्मतुल्यान् 'प्रयलेन' उद्युक्ततयेति गाथार्थः ॥ ६३ ॥ अणुओगगणाणुण्णा एवेसा वण्णिआ समासेणं । संलेहणत्ति दारं अओ परं कित्तइस्सामि ॥ १३६४ ॥ अनुयोगगणानुज्ञा एवम् उक्तेन प्रकारेण एषा वर्णिता समासेन, संलेखनेति द्वारमतः परं पञ्चमं कीर्त्तयिष्या मीति गाथार्थः ॥ किमित्येवमित्याह
अणुओगगणाणुष्णा कयाऍ तयणुपालणं विहिणा ।
जंता करेइ ( धीरो ) सम्मं जाऽऽवइओ चरमकालो उ ॥ १३६५ ॥
• अनुयोगगणानुज्ञायां कृतायां सत्यां 'तदनुपालनम्' अनुयोगादिपालनं विधिना 'यद्' यस्मात्तावत्करोति 'धीरः' ऋषिर्यावदापतितः क्रमेण चरमकाल इति गाथार्थः ॥ ६५ ॥ इति गणानुज्ञावस्तु ४ ।
अथ संलेखनावस्तु, संलेखनामाह
| संलेहणा इह खलु तवकिरिया जिणवरेहिं पण्णत्ता । जं तीऍ संलिहिज्जइ देहकसायाइ णिअमेणं ॥ १३६६ ॥ संलेखना इह खलु प्रक्रमे तपःक्रिया विचित्रा जिनवरैः प्रज्ञप्ता, किमित्याह - 'यद्' यस्मात्तया संलिख्यते - कृशीकियते देहकषायादि, बाह्यमान्तरं च, नियमेनेति गाथार्थः ॥ ६६ ॥ अतिप्रसङ्गपरिहारमाह
For Private & Personal Use Only
पुनः शिक्षा संलेखनोपोद्घातः
॥ १९५ ॥
www.jainelibrary.org