SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ AAAAAAAS जयं” इत्यादि श्रवणान्नैव चरणपरिणाममन्तरेण भावतः षट्सु यतो भवतीति । अत्रोत्तरमाह-'आहत्यभावकथक' कादाचित्कभावसूचकं 'सूत्रं पुनः' पाण्मासिकम् इत्यादि 'भवति ज्ञातव्यम्' तच्च प्रायोग्रहणेन व्युदस्तमेव, न सूत्रविरोधः।। इति गाथार्थः ॥५१॥ पराभिप्रायमाहकेइ भणंति वाला किल एए वयजुआवि जे भणिया।खुड्डुगभावाउ च्चिय न हुंति चरणस्स जुग्गुत्ति ५२ | 'केचन भणंति' तन्त्रान्तरीयास्त्रैवेद्यवृद्धादयो 'बालाः किल एते' के इत्याह 'वयोयुक्ता अपि ये भणिता' अष्टवर्षा अपि ये उक्ताः, यतश्चैवमतः 'क्षुल्लकभावादेव' बालत्वादेव किमित्याह-न सम्भवन्ति 'चरणस्य योग्या' इति न चारित्रोचिताः। इति गाथार्थः ॥५२॥ अन्ने उ भुत्तभोगाणमेव पवजमणहमिच्छति । संभावणिजदोसा वयम्मि जं खुड्डगा होति ॥ ५३॥ _ 'अन्ये तु' त्रैवेद्यवृद्धाः 'भुक्तभोगानामेव' अतीतयौवनानां 'प्रव्रज्यामनवद्यां' अपापां इच्छन्ति प्रतिपद्यन्ते, किमित्यत्राह-'सम्भावनीयदोषाः' सम्भाव्यमानविषयासेवनापराधा 'वयसि' यौवने 'यद्' यस्मात् 'क्षुल्लका भवन्ति', सम्भवी |च दोषः परिहर्तव्यो यतिभिः । इति गाथार्थः ॥ ५३॥ विण्णायविसयसंगा सुहं च किल ते तओणुपालंति । कोउअनिअत्तभावा पवजमसंकणिजाय ॥५४॥ 'विज्ञातविषयसङ्गाः- अनुभूतविषयसङ्गाः सन्तः 'सुखं च किल ते' अतीतवयसः, 'ततो' विज्ञातविषयसङ्गत्वात् For Private &Personal use Only Jain Education in ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy