________________
श्रीपञ्च- वस्तुके.
प्रव्रज्याविधानं द्वारम् .
KA4%3A%%%
कर्मरोगनाशनाय 'तस्यापि' धर्मवैद्यस्य 'उपमा' इयमेव, आत्मानं तांश्च क्लेशे पातयति । इति गाथार्थः ॥४८॥ चोदक आह-जिनक्रियाया असाध्या नाम न सन्ति; सत्यमित्याहजिणकिरिआए असज्झा ण इत्थ लोगम्मि केइ विजंति।जे तप्पओगजोगा तेसज्झा एस परमत्थो ४९ | जिनानां सम्बन्धिनी क्रिया तत्प्रणेतृत्वेन 'जिनक्रिया' तस्या 'असाध्या' अचिकित्स्याः 'नात्र लोके' प्राणिलोके 'केचन' प्राणिनो 'विद्यन्ते' । किन्तु 'ये तत्प्रयोगायोग्या' जिनक्रियायामनुचिताः 'तेऽसाध्याः', कर्मव्याधिमाश्रित्य 'एष परमार्थः', इदमत्र हृदयम् । इति गाथार्थः॥४९॥ एएसि वयपमाणं अट्टसमाउत्ति वीअरागेहिं । भणियं जहन्नयं खलु उक्कोसं अणवगल्लोत्ति ॥ ५० ॥ | एतेषां प्रत्रज्यायोग्यानां 'वयःप्रमाणं' शरीरावस्थाप्रमाणम् 'अष्टौ समा इति' अष्टवर्षाणि 'वीतरागैः' जिनैः 'भणितं' प्रतिपादित, 'जघन्यकं खलु सर्वस्तोकमेतदेव द्रव्यलिङ्गप्रतिपत्तेरिति, 'उत्कृष्टं' वयाप्रमाणं 'अनवगल्ल इति' अनत्यन्तवृद्धः । इति गाथार्थः ॥ ५० ॥ अधः को दोष ? इति चेत्, उच्यतेतदहो परिभवखित्तं ण चरणभावो वि पायमेएसिं । आहच्चभावकहगं सुत्तं पुण होइ नायव्वं ॥ ५१ ॥
'तदधः परिभवक्षेत्रम्' इत्यष्टभ्यो वर्षेभ्य आरादसौ परिभवभाजनं भवति 'न चरणपरिणामो(भावो)ऽपि न चारित्रपरिणामोऽपि 'प्रायों बाहुल्येन 'एतेषां' तदधोवर्तिनां वालानामिति; आह-एवंसति सूत्रविरोधः, "छम्मासियं छसु
+RNA
॥१०॥
*
Jain Education Inter
For Private & Personal Use Only
Daw.jainelibrary.org