SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ RECRUter दिति अ तो वंदणयं सीसाइ तओ गुरुवि अणुसटुिं । दोण्हवि करेइ तह जह अण्णोऽवि अ बुज्झई कोई ॥ १३४६ ॥ । अत्र प्रक्रमे अनुज्ञाविधिरयं-शिष्यं कृत्वा वामपार्श्वे आत्मनः देवान् वन्दते 'गुरुः' आचार्यः, शिष्यो वन्दित्वाऽत्रान्तरे ततो भणति, वक्ष्यमाणमिति गाथार्थः॥ ३६ ॥ 'इच्छाकारेण' स्वेच्छाक्रिययाऽस्माकं दिगाद्यनुजानीतेति भणति, अत्रान्तरे आचार्य इच्छाम इति भणित्वा तदनन्तरं कायोत्सर्ग करोति, तदनन्तरं,दिगाद्यनुज्ञार्थमिति गाथार्थः ॥३७॥ चतुर्विंशतिस्तवपाठनमस्कारपारणं 'नमोऽरहताणंती'त्येवम् 'आकृष्य' पठित्वा स्तवं पूर्वोक्तं ततो नमस्कारपूर्वकमेवाकर्षतिपठति अनुज्ञानन्दीमिति गाथार्थः॥ ३८॥ शिष्योऽपि भावितात्मा सन् शृणोत्युपयुक्तः, अथ वन्दित्वा पुनर्भणति शिष्यः-इच्छाकारेणास्माकं भगवन् ! दिगाद्यनुजानीतेति, तथैव भणतीति गाथार्थः॥३९॥ आह गुरुस्त्वत्रान्तरे क्षमाश्रमणानां हस्तेन, न स्वमनीषिकया, अस्य साधोः प्रस्तुतस्य अनुज्ञातं दिगादि प्रस्तुतं, शिष्यो वन्दित्वाऽत्रान्तरे ततोभणति, वक्ष्यमाणमिति गाथार्थः॥४०॥ सन्दिशत किं भणामि?, अत्र प्रस्तावे वन्दित्वा प्रवेदयैवं गुरुर्भणति, वन्दित्वा प्रवेदयति शिष्यो, भणति गुरुस्तत्र विधिना तु, वक्ष्यमाणमिति गाथार्थः॥४१॥ वन्दित्वा भणति ततः, किमित्याह-युष्माकं प्रवेदितं सन्दिशत साधूनां प्रवेदयामि, एवं भणति शिष्यः, अत्रान्तरे गुरुराह-प्रवेदय, 'ततस्तु' तद-15 नन्तरमिति गाथार्थः॥ ४२ ॥ किमित्याह-वन्दित्वा नमस्कारमाकर्षन् 'सः' शिष्यः गुरुं प्रदक्षिणीकरोति, सोऽपि चर . Jain Education Intel For Private & Personal Use Only w w.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy