SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter ताणिह पोरसेआणि अपोरसेआणि वेयवयणाणि । सग्गुवसिअमुहाणं दिट्ठो तह अत्थभेओऽवि ॥१२८५॥ वेदवचनं तु न एवं सम्भवत्स्वरूपं, अपौरुषेयमेव तन्मतं येन कारणेन, इदमत्यन्तविरुद्धं वर्त्तते यदुत वचनं चापौरुपेयं चेति गाथार्थः ॥ ७८ ॥ एतद्भावनायाह - 'यद्' यस्मादुच्यत इति वचनम् अयमन्वर्थः, पुरुषाभावे तु नैवमेतत्, नोच्यत इत्यर्थः, तत् 'तस्यैव' वचनस्याभावो नियमेनापौरुषेयत्वे सत्यापद्यत इति गाथार्थः ॥ ७९ ॥ तद्व्यापारविरहितं शून्यं न क्वचित् श्रूयते इह वचनं लोके, श्रवणेऽपि च सति नाशङ्काऽदृश्य कर्युद्भवाऽपैति प्रमाणाभावादिति गाथार्थः ॥ ८० ॥ अवश्यकर्तृकं 'नो' नैवान्यत् श्रूयते कथं न्वाशङ्का ?, विपक्षादृष्टेरित्यर्थः, अत्राह - श्रूयते पिशाचवचनं, कदाचिल्लौकिकमेतद्, 'एतत्तु' वैदिकमपौरुषेयं न सदैव श्रूयत इति गाथार्थः ॥ ८१ ॥ यथाऽभ्युपगमदूषणमाह-वर्णाद्यपरुपेयं लौकिकवचनानामपीह सर्वेषां वर्णसत्त्वादिवाचकत्वादेः पुरुषैरविकरणात्, वेदे को विशेषो येन तत्रैषोऽसद्ग्रहःअपौरुषेयत्वासग्रह इति गाथार्थः ॥ ८२ ॥ न च निश्चयोऽपि 'ततो' वेदवाक्यात् युज्यते प्रायः क्वचिद्वस्तुनि सच्या याद्, 'यद्' यस्मात् 'तस्य' वेदवचनस्यार्थप्रकाशनविषये 'इह' प्रक्रमेऽतीन्द्रिया शक्तिरिति गाथार्थः ॥ ८३ ॥ नो पुरुषमात्रगम्या एषा, तदतिशयोऽपि न बहुमतो युष्माकम्, अतीन्द्रियदर्शी, लौकिकवचनेभ्यः सकाशात् दृष्टं च कथञ्चिद्वैधर्म्य वेदवचनानामिति गाथार्थः ॥ ८४ ॥ तानीह पौरुषेयाणि - लौकिकानि अपौरुषेयाणि वेदवचनानीति वैधर्म्य, स्वर्गोर्वशीप्रमुखानां शब्दानां दृष्टस्तथाऽर्थभेदोऽपि, अप्सरोर्व्यादिरूप इति गाथार्थः ॥ ८५ ॥ एवं य एव लौकिकास्त एव वैदिकाः स एव चैषामर्थ इति यत्किञ्चिदेतत् ॥ For Private & Personal Use Only ww.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy