________________
कारणात् पूर्वाचार्याः-भद्रबाहुप्रभृतयः इदमाहुर्वक्ष्यमाणमिति गाथार्थः ॥ ७९ ॥ गीतार्थश्च विहारः, तदभेदोपचारात्, द्वितीयो गीतार्थमिश्रो भणितो, विहार एव, 'अतो' विहारद्वयात् तृतीयविहारः-साधुविहरणरूपः नानुज्ञातो जिनवरैभगवद्भिरिति गाथार्थः ॥८०॥ अस्य भावार्थमाह-गीतार्थस्य नोत्सूत्रा प्रवृत्तिः, 'तद्युक्तस्य' गीतार्थयुक्तस्येतरस्यापि-अगी-2 तार्थस्य 'तथैव' नोत्सूत्रेति,कुत इत्याह-'नियमेन'अवश्यन्तया चरणवान् यद्-यस्मात् कारणात् 'न जातुन कदाचिदाज्ञांडू 'विलयति' उत्क्रामतीति गाथार्थः॥८॥न च गीतार्थः सन् अन्यमगीतार्थ न निवारयति अहितप्रवृत्तं,योग्यतां मत्वा निवारणीयस्य, एवं' द्वयोरपि-गीतार्थागीतार्थयोश्चरणं परिशुद्धं, वारणप्रतिपत्तिभ्याम् , अन्यथा नैवोभयोरपीति गाथार्थः॥८॥ ता एव विरइभावो संपुण्णो एत्थ होइ णायवो। णिअमेणं अट्ठारससीलंगसहस्सरूवो उ ॥ ११८३॥ ऊणत्तं ण कयाइवि इमाण संखं इमं तु अहिगिच्च।जं एअधरा सुत्ते णिहिट्ठा वंदणिज्जा उ॥११८४ ॥ __ 'तत्' तस्मादेवम्-उक्तवद्विरतिभावः 'सम्पूर्णः' समग्रः अत्र व्यतिकरे भवति ज्ञातव्य इति, 'नियमेन' अवश्यन्तया ।
अष्टादशशीलाङ्गसहस्ररूप एव, सर्वत्र पापविरतेरेकत्वादिति गाथार्थः ।। ८३ ॥ ऊनत्वं न कदाचिदपि एतेषां-शीलाङ्गानां सङ्ख्यामेतामेवाधिकृत्य-आश्रित्य, 'यद्' यस्माद् 'एतद्धराः' अष्टादशशीलाङ्गसहस्रधारिणः सूत्रे प्रतिक्रमणाख्ये निर्दिष्टा वन्दनीया, नान्ये, 'अट्ठारससीलंगसहस्सधारा' इत्यादिवचनप्रामाण्यादिति गाथार्थः ॥ ८४॥ यस्मादेवं तस्मादेतत् महानेव कश्चित्कर्तुमलं न तु यः कश्चिदित्येतदाह
Jan Education inte
For Private & Personal use only
Doww.jainelibrary.org