________________
सुहगंधधूवपाणिअसवोसहिमाइएहिं ता णवरं । कुंकुमगाइविलेवणमइसुरहिं मणहरं मल्लं ॥ ११४१ ॥ विविहणिवेअणमारत्तिगाइ धूवथयवंदणं विहिणा । जहसत्ति गीअवाइअणच्चणदाणाइअंचेव॥११४२॥ विहिआणुढाणमिणति एवमेअं सया करिताणं । होइ चरणस्स हेऊ णो इहलोगादविक्खाए॥११४३॥ I 'ततश्च प्रतिष्ठानन्तरं प्रतिदिनमसौ-श्रावकः कुर्यात् 'पूजाम्' अभ्यर्चनरूपां जिनेन्द्रस्थापनायाः-प्रतिमाया इत्यर्थः, 'विभवानुसारगुर्वीम्' उचितवित्तत्यागेन काले उचित एव नियतां भोजनादिवद्, 'विधानेन' शुचित्वादिनेति गाथार्थः ॥३९॥ एतदेवाह-जिनपूजाया विधानमेतत्-शुचिभूतः सन् स्नानादिना 'तस्यामेव' पूजायामुपयुक्तः-प्रणिधानवान अन्यदङ्गं-शिरःप्रभृत्यस्पृशन् करोति यां पूजां प्रवरवस्तुभिः-सुगन्धिपुष्पादिभिरिति गाथार्थः॥४०॥अत्रैव विधिशेषमाहशुभगन्धधूपपानीयसर्वोषध्यादिभिस्तावत्स्नपनं प्रथममेव, भूयः कुङ्कुमादिविलेपनं, तदन्वतिसुरभि गन्धेन मनोहारि दर्शनेन माल्यमिति गाथार्थः ॥४१॥ विविधं निवेदनमिति-चित्रं निवेद्यम्, आरत्रिकादि, तदनु धूपः, तथा स्तवः, तदनु वन्दनं, 'विधिना' विश्रब्धादिना, तथा यथाशक्ति सङ्गीतवादित्रनर्त्तनदानादि चैव, आदिशब्दाचितस्मरणमिति गाथार्थः॥४२॥
विहितानुष्ठानमिदमित्येवं च चेतस्याधाय एतत् सदा कुर्वतां भवति चरणस्य हेतुरेतदेव, नेहलोकाद्यपेक्षया, आदिशब्दात्कीर्त्यादिपरिग्रह इति गाथार्थः ॥ ४३ ॥
-CACACA-CRAC-
पञ्चव, २९
Jan Education Inted
For Private & Personal Use Only
He
www.jainelibrary.org