________________
COMCOMSUALCOMESCORENA
था वैशिष्ट्यायोगात् , तदाह-हन्दि विशिष्टत्वादुक्तेन प्रकारेण भवन्ति विशिष्टाः-स्वसंवेद्याः सुखादयः, आदिशब्दाहःखबन्धादिपरिग्रह इति गाथार्थः॥ ८३ ॥ विपक्षे बाधामाह-'इतरथा' यथा स्वरूपेण सत् तथा पररूपेणापि भावे सत्तामात्रादिभावाद्, आदिशब्दादसत्त्वमात्रादिग्रह इति, कथं विशिष्टता प्रत्यात्मवेद्यतया 'तेषां' सुखादीनां ?, 'तदभावे' विशिष्टसुखाद्यभावे 'तदर्थो' विशिष्टसुखार्थों हन्त 'प्रयत्नः' क्रियाविशेषो महामोहोऽसम्भवप्रवृत्त्येति गाथार्थः ॥ ८४ ॥ नित्योऽप्येकस्वभावः स्थिरतया, 'स्वभावभूते' आत्मभूते कथं न्वसौ नित्यः सन् दुःखे, किमित्याह-'तस्य दुखस्योच्छेदनिमित्त-विनाशाय असम्भवाद्धेतोः प्रवर्तेत कथं ?, नैवेति गाथार्थः ॥ ८५ ॥ एकान्तेनानित्योऽपि चनिरन्वयनश्वरः 'सम्भवसमनन्तरम्' उत्पत्त्यनन्तरम् 'अभावाद्' अविद्यमानत्वात् 'पारिणामिकहेतुविरहात्' तथाभा-18 विकारणाभावेन 'असम्भवाच' कारणात् 'तस्ये'त्येकान्तानित्यस्य स कथं प्रवर्तेत ?, नैवेति गाथार्थः॥८६॥ एतदेव समर्थयन्नाह-'न विशिष्टकार्यभावो' न घटादिकार्योत्पादो न्याय्यः 'अनतीतविशिष्टकारणत्वात्' अनतिक्रान्तनियतकारणत्वादित्यर्थः 'एकान्ताभेदपक्षे कार्यकारणयोर्नित्यत्वपक्ष इत्यर्थः, 'नियमाद्' अवश्यमेव नेति, तथा 'भेदपक्षे च' कार्यकारणयोरेकान्तानित्यत्वपक्ष इत्यर्थः, नियमादवश्यमेव नेति गाथार्थः॥ ८७ ॥ उभयत्र निदर्शनमाह-पिण्डवत् पटवदिति च दृष्टान्तौ, न घटस्तत्फलं-पिण्डफलमिति प्रतिज्ञा, अनतीतपिण्डभावत्वाद् अभेदपक्षे, पिण्डवद्धेतोः समानत्वाद्, भेदपक्षे पटवत्, 'तदतीतत्वे' घटस्य पिण्डातीततायां 'तस्यैव तथाभावात्' पिडस्यैव घटरूपेण भावाद् 'अन्वयादिस्वम्' अन्वयव्यतिरेकित्वं वस्तुन इति गाथार्थः॥८॥अतः सदसन्नित्यानित्यादिरूपमेव वस्तु, तथा चाह-एवंविध एवा
Jain Education in
For Private & Personal Use Only
T
ww.jainelibrary.org