SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ केवलदश नपक्षनि रास सूत्रे भणितं भावमङ्गीकृत्य क्रमभवनममीषामिति गाथार्थः॥ १८॥ एतदेवाह-सम्यक्त्वे लब्धे ग्रन्थिभेदेन भावरूपे पल्योपमपृथक्त्वेन, तथाविधेन कर्मस्थितेरपगमेन, श्रावको भवति, भावतो देशविरत इत्यर्थः, 'चारित्रोपशमक्षयाणां' सर्वचारित्रोपशमश्रेणिक्षपकश्रेणीनां सागरोपमाणि सङ्ख्येयान्यन्तरं भवति, प्राक्तनरकर्मस्थितेः सङ्ख्येयेषु सागरोपमेषु क्षीणेषु भावत उत्तरोत्तरलाभो भवतीति गाथार्थः ॥ १९॥ एवमप्रतिपतिते सम्यक्त्वे सति देवमनुजजन्मसु संसरतो भवति अन्यतरश्रेणिवर्जम् , एकजन्मनि तदुभयाभावाद्, एकभवेन वा कर्मविगमापेक्षया, तथैव 'सर्वाणि' सम्यक्त्वादीनीति गाथार्थः ॥२०॥ प्रकृतयोजनामाह-नैवम्-उक्तेन प्रकारेण चरणाभावे सति मोक्ष इति, प्रतीत्य भावचरणमेव यथोदितं, 'द्रव्यचरणे' पुनः प्रव्रज्याप्रतिपत्त्यादिलक्षणे 'भजना' कदाचिद् भवति कदाचिन्न, कथमित्याह-सोमादीनामन्तकृत्केवलिनामभावात् , सोमेश्वरकथानकं प्रकटमिति गाथार्थः ॥ २१॥ तेषामपि च तत्तत्पूर्वकमेवेत्येतदाह 'तेषामपि' सोमादीनां भावचरणं 'तथाविधं' झटित्येवान्तकृत्केवलित्वफलदं 'द्रव्यचरणपूर्व तु' उपस्थापनादिद्रव्यचारिपूर्वमेव 'अन्यभवापेक्षया' जन्मान्तराङ्गीकरणेन विज्ञेयम् , उत्तमत्वेन हेतुना, उत्तममिदं न यथाकथञ्चित्प्राप्यते इति गाथार्थः॥ २२ ॥ एतदेव स्पष्टयन्नाह-तथाऽन्तकृत्केवलिफलदं चरमशरीरत्वमनेकभवकुशलयोगतः-अनेकजन्मधर्माभ्यासेन 'नियमात् ' नियमेन प्राप्यते, किमित्येवमित्याह-'यद्' यस्मात् 'मोहः' असत्प्रवृत्तिहेतुः अनादिमानितिकृत्वाऽभ्यासतः सात्मीभूतत्वाद् दुर्विजयः, नाल्पैरेव भवैर्जेतुं शक्यत इति गाथार्थः ॥ २३ ॥ अत्राह 4% AGAVब- ॥१४॥ ॥१४॥ कर Jain Education Interna For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy