________________
Jain Education Inter
कश्चित् नौवित्तकादिः रोधकादिष्वापद्विशेषेषु, 'तत्र' रोधकादौ 'तस्य' नान्दीभाजनस्योपयोगः, शेषकालं प्रतिक्रुष्टः तस्योपयोग इति गाथार्थः ॥ ९७ ॥
पत्ताबंधपमाणं भाणपमाणेण होइ कायवं । जह गंठिम्मि कयम्मी कोणा चतुरंगुला होंति ॥७८८॥
पात्रबन्धप्रमाणं, किमित्याह - भाजनप्रमाणेन करणभूतेन भवति कर्त्तव्यं, किंविशिष्टमित्याह - यावद् ग्रन्थी कृते सति कोणौ चतुरङ्गुलौ भवतः, त्रिकालविषयत्वात् सूत्रस्यापवादिकमिदं सदा ( तदा ) ग्रन्थ्यभावादिति गाथार्थः ॥ ९८ ॥ पत्तगठवणं तह गोच्छओ अ पायपडिलेहणी चेव । तिण्हंपि ऊ पमाणं विहत्थि चउरंगुलं चेव ॥ ७९९ ॥
पात्रस्थापनमूर्णामयं तथा गोच्छकश्च पात्रप्रतिलेखनी चैव-मुहपोत्ती, एतेषां त्रयाणामपि प्रमाणं प्रस्तुतं 'वितस्तिश्च - तुरङ्गुलं चैव' षोडशाङ्गुलानीति गाथार्थः ॥ ९९ ॥ एतेषां प्रयोजनमाहरयमाइरक्खणट्टा पत्ताबंधो अ पत्तठवणं च । होइ पमज्जणहेउं तु गोच्छओ भाणवत्थाणं ॥ ८०० ॥ पायपमज्जणहेउं केसरिआ इत्थ होइ नायवा । पडलसरूवपमाणाइ संपयं संपवक्खामि ॥ ८०१ ॥
रजःप्रभृतिरक्षणार्थं पात्रबन्धुश्चोत्तलक्षणः, पात्रस्थापनं च भवति प्रमार्जनहेतोः, एतन्निमित्तमेव गोच्छकः भाजनवस्त्राणां - पटलादीनामिति गाथार्थः ॥ ८०० ॥ पात्रप्रमार्जन हेतोः किमित्याह - केसरिका अत्र भवति ज्ञातव्या, पटलस्वरूपप्रमाणादि, आदिशब्दात् प्रयोजनं, साम्प्रतं प्रवक्ष्यामीति गाथार्थः ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.on