________________
गुरुकुलवा
श्रीपञ्चव. उपस्थापनावस्तु ३
समहिमा
ACCORCEOCOCCAMORECAUCKNOCHOK
गुरुगुणयुक्तं तु 'गुरुम्' आचार्य 'इभ्यः' अर्थवान् सुस्वामिनमिव न मुञ्चेत्,किमर्थमित्याह-चरणधनफलनिमित्तं,कथं फलमित्याह-प्रतिदिनगुणभावयोगेनेति गाथार्थः॥८॥ एतदेवाह-तत्र हि गुरुदर्शनं प्रशस्तं, तस्य पुण्यसम्भारभावात् , विनयश्च तथा महानुभावस्य वन्दनादिकरणेन, अन्येषां मार्गदर्शनं, गुरुकुलवासस्य मार्गत्वात् , निवेदनापालनं चैव, प्रव्रज्याकाले आत्मा तस्मै निवेदित इति गाथार्थः ॥९०॥ वैयावृत्त्यं परमं तत्सन्निधानात् तद् गामि, बहुमानः तथा च गौतमादिषु गुरुकुलनिवासिषु, तीर्थकराज्ञाकरणं तेनास्योपदिष्टत्वात् , शुद्धो ज्ञानादिलाभश्च विधिसेवनेनेति गाथार्थः॥९१॥ अङ्गीकृतसाफल्यं, दीक्षायाः ज्ञानादिसाधनत्वात् , 'ततश्च' तत्फलात् ज्ञानादेः परः परोपकारोऽपि भवति, शुद्धस्य भवत्येवं, पर्यायजन्मन्यादित आरभ्य, प्रायः शुभशिष्यसन्तानः, शुद्ध कुलप्राप्तवे(त्वावाप्से)रिति गाथार्थः ॥ ९२॥ 'इय' एवं निष्कलङ्कमार्गानुसेवन क्रियमाणं भवति शुद्धमार्गस्य, किमित्याह-जन्मान्तरेऽपि कारणम् , अभ्यासात्, अतश्च मार्गो, नियमेन मोक्षः परम्परयेति गाथार्थः॥९३॥ एवं गुरुकुलवासः परमपदनिबन्धनं यतः उक्तन्यायात् तेन तद्वसिद्धिकैरपि गौतमप्रमुखैराचरितो, न्याय्यत्वादिति गाथार्थः ॥ ९४ ॥ 'तत् तस्माद् 'एनं' गुरुकुलवासमाचरेत् त्यक्त्वा निजं कुलं दीक्षाङ्गीकरणेन कुलप्रसूतः पुमानिति, 'इतरथा' अन्यथा उभयपरित्यागः, उभयं गृहिप्रव्रज्याकुलद्वयं, स पुनरुभय त्यागः नियमादनर्थफल इति गाथार्थः ॥ ९५ ॥ द्वारम् ॥ गुरुपरिवारोगच्छो तत्थ वसंताण निजरा विउला।विणयाओ तहसारणमाईहिं न दोसपडिवत्ती॥ ६९६॥
R
॥११०॥
Jain Education Inter
For Private & Personal Use Only
Neww.jainelibrary.org