________________
स्वरूपं
एए चेव विभागा परतित्थीणपि हुंति मणुआणं। तिरिआणपि विभागं अओ परं कित्तइस्सामि ॥४११॥ अनापाता. एत एव-अनन्तरोदिताः शौचवाद्यादयो विभागा-भेदाः परतीथिकानामपि भवन्ति 'मनुजानां' कापिलादीनां, तिरश्चा
संलोकमपि विभाग स्थण्डिलप्रतिबद्धमेव अतः परं कीर्तयिष्यामि इति गाथार्थः ॥११॥ | दित्ताऽदित्ता तिरिआ जहण्णमुक्कोस मज्झिमो चेव।एमेवित्थिनपुंसा दुगुंछिअदुगुंछिआ नवरं ॥४१२॥
'दृप्तादृप्तास्तिर्यश्चः' हप्ता-दपिता अदृप्तास्तु-इतरे इति, दुष्टेतर इत्यन्ये, एते च जघन्या उत्कृष्टा मध्यमाश्चैव, जघन्याएडकशूकरादयः उत्कृष्टा-हस्तिवृषभादयःमध्यमाश्च-उष्ट्रादयः, एवमेव स्त्रीनपुंसके तिर्यक्सम्बन्धिनी वेदितव्ये, जुगुप्सिताजुगुप्सिते नवरं, तत्र जुगुप्सिते-एलकखरादिरूपे अजुगुप्सिते-गवादिरूप इति गाथार्थः ॥ १२॥ इत्थं स्थण्डिलमभिधाय गमनविधिमाहगमण मणुन्ने इअरे वितहायरणमि होइ अहिगरणं। पउरदवकरण दटुंकुसीलसेहाइगमणं तु॥४१३॥दार। ___ गमनं 'मनोज्ञ' इति सपक्षसंयतसंविग्नमनोज्ञापातवतीति भावः, इतरस्मिन्निति-अमनोज्ञापातवति, सामाचारीविपर्यासदर्शनेन वितथाचरणमिति शिक्षकाणां मिथो भवति अधिकरणम् , इदं तावत् संविग्नापातवति, असंविग्नापेक्षया तु दोषमाह-प्रचुरद्रवकरणं दृष्ट्वा कुशीलेषु-असंविग्नेषु शिक्षकादिगमनं तु' शौचवादिशिक्षकपरीषहपराजितानामेतेऽपि प्रव्रजिता एवेति वरमेत इत्यनुकूलतया गमनमिति गाथार्थः ॥१३॥ संयत्यापातवति तु न गन्तव्यमेव, परपक्षपुरुषापातवति दोषमाह
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org