________________
श्रीपञ्चव.
प्रतिदिन
क्रिया २
।। ६८ ।।
Jain Education Inte
तन्त्रापातवद् द्विविधं-स्वपक्षतः परपक्षतश्च ज्ञातत्र्यं, स्वपक्षापातवत् परपक्षापातत्र च्चेत्यर्थः, द्विविधं भवति 'स्वपक्ष' इति अनापातास्वपक्षविषयं, संयतस्त्रपक्षापातवत् तथा संयतीस्त्रपक्षापातवच्चेति गाथार्थः ॥ ७ ॥
संलोकस्वरूपं
| संविग्गमसंविग्गा संविग्ग मणुण्णएअरा चैव । असंविग्गाविय दुविहा तप्पक्खिअ एअरा चैव ॥४०८ दारं ॥
तेच संयतादयो द्विप्रकाराः - संविग्ना असंविग्नाश्च, संविग्ना-उद्यतविहारिणः असंविग्नाः - शीतलाः, संविग्ना अपि द्विप्रकाराःमनोज्ञा इतरे चैव, मनोज्ञा - एकसामाचारीस्थिता इति, इतरे तु-अमनोज्ञाः भिन्नसामाचारी स्थिता इति, असंविन्ना अपि च द्विविधाः - 'तत्पाक्षिका इति' संविग्नपाक्षिकाः 'इतरे चैव' असंविग्नपाक्षिका इति च ततश्चैव दापातवत् स्थण्डिलमपि तद्व्यपदेशवदवगन्तव्यं, यथा संविग्न पक्षापातवदित्यादीति गाथार्थः ॥ ८ ॥ उक्तं स्वपक्षापातवत्, परपक्षमधिकृत्याह — परपक्खेऽवि अ दुविहं माणुसतेरिच्छियं च नायवं । एक्किकंपिअ तिविहं इत्थी पुरिसं नपुंसं च ॥ ४०९ ॥
'परपक्षेऽपि च' परपक्षविषयमपि च द्विविधं मानुषं तैरश्चं च ज्ञातव्यं मानुषापातवत्तिर्यगापातवच्च, एकैकमपि च त्रिविधमेतयोः कथमित्याह - स्त्री पुरुष नपुंसकं चेति, उपलक्षणत्वात् रूपापातवत्पुरुषापात वन्नपुंसका पातवच्चे ति गाथार्थः ॥ ९ ॥ पुरिसावायं तिविहं दंडिअ कोडुंबिए अ पागइए । ते सोअऽसोअवाई एमेव णपुंसइत्थीसुं ॥ ४१०॥ पुरुषापातवत् त्रिविधं दण्डिकापातवत् कुडुम्बिकापातवत् प्राकृतापातवच्च, ते च दण्डिकादयः शौचाशौचवादिनो भवन्ति, एवमेव स्त्रीनपुंसकयोरपि शौचाशौचवादित्वं योज्यम्, एतद्व्यपदेशाच्च स्थण्डिलस्य तथा व्यपदेश इति गाथार्थः ॥ १० ॥
For Private & Personal Use Only
॥ ६८ ॥
www.jainelibrary.org