SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन - क्रिया २ ॥ ६७ ॥ Jain Education In द्विकसंयोगे चत्वारो भङ्गा भवन्ति, द्वाभ्यां चतुर्भङ्गिकानिष्पत्तेः ते चैवं - अणावातमसंलोअं ४, त्रिष्वष्टौ भवन्ति' त्रिभ्योऽष्टभङ्गिकानिष्पत्तेः, 'शेषेषु' 'चतुष्प्रभृतिषु 'द्विगुणद्विगुणेति द्विगुणद्विगुणा वृद्धिर्भवति, चतुर्भ्यः षोडशभङ्गि - कानिष्पत्तेः इत्यादि, एवमेकैकवृस्या भङ्गानां परिसङ्ख्या दशभिः वस्तुभिर्भङ्गसहस्रं चतुर्विंशत्युत्तरमिति गाथार्थः ॥ २ ॥ भङ्गपरिसङ्ख्या परिज्ञानोपायान्तरमाह १०२४ स्थण्डिलभंगाः | अहवा उभय मुहं रासिदुगं हिट्टिल्लाणंतरेण भय पढमं । लद्धऽहरा सिविहत्तं तस्सुवरिगुणं तु संजोगा ॥४०३ ॥ 'उभयमुख' मिति स्थापनया दर्शयिष्यामः, 'राशिद्वयम्' एकादिस्थापनासम्पातद्वयं तत्र चाधस्तनानन्तरेण भजेत् प्रथमम् - उपरितनं, 'लब्धाधोराशिविभक्तेन' अधोराशिना विभक्ते सत्युपरितनराशौ यल्लब्धं तेन तस्योपरि यत् तद्गुणितं तत्संयोगा इति गाथाक्षरार्थः ॥ ३ ॥ भावार्थस्तु दर्श्यते, तत्रेयं स्थापना - ११० ४५ १२० २१० २५२ २१० १२०४५ १० ६ ५ ४ ३ २१ इह चाधस्त्यपर्यन्ते एककः तस्यानन्तरो द्विकः, तेनोपरितनो दशको भज्यते, १०९८७ १२ ३ ४ ५ ६ ७ ८ तत्र च पञ्च लभ्यन्ते, यतो द्विधा विभक्ताः (दश) पञ्चैव भवन्ति, तेन च पञ्चकेन तस्योपरि यो नवकः स गुण्यते, स च पञ्चकेन गुणितः पञ्चचत्वारिंशद् भवन्ति, पुनश्चाधस्त्यानन्तरस्त्रिकः तेन पञ्चचत्वारिंशद्विभज्यन्ते, तत्र पञ्चदश लभ्यन्ते ॥ ६७ ॥ यतः पञ्चचत्वारिंशत् त्रिधा विभक्ताः पञ्चदशैव भवन्ति, तेन पञ्चदशकेन तस्योपरि योऽष्टकः स गुण्यते, स च तेन गुणिते | विंशत्युत्तरं शतं भवति, पुनश्चाधस्त्यानन्तरश्चतुष्कः, तेन विंशत्युत्तरं शतं विभज्यते, तत्र त्रिंशलभ्यते, यतो विंशत्युत्तरं For Private & Personal Use Only www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy