SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. प्रतिदिन । क्रिया २ ॥ ४७ ॥ Jain Education Inter कालपरिहाणिदोसा सिक्कगबंधेऽवि विलइए संतो । एसो व विही सम्मं कायवो अप्पमत्तेणं ॥२७८॥ 'कालपरिहाणिदोषाद्' दुष्षमालक्षणकालपरिहाण्यपराधेन सिक्कगबंधेऽपि पात्र इति गम्यते विलगिते सति, कीलकादौ प्रमादभङ्गभयेन, एष एव विधिरनन्तरोदितः 'सम्यग् ' अन्यूनातिरिक्तः कर्त्तव्यः अप्रमत्तेन, न स्थापनत्यागवत् सर्वत्याग एव कार्यः, तस्य पूर्वाचार्यैरेवाचरितत्वादिति गाथार्थः ॥ ७८ ॥ एतदेव समर्थयति — अवलंबिऊण कज्जं जं किंचि समायरंति गीयत्था । थेवावराहबहुगुण सब्बेसिं तं पमाणं तु ॥ २७९ ॥ अवलम्ब्य - आश्रित्य कार्य यत्किञ्चिदाचरन्ति सेवन्ते 'गीतार्थाः' आगमविदः स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेव, उत्सर्गापवादरूपत्वादागमस्येति गाथार्थः ॥ ७९ ॥ किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । तित्थगराणं आणा कज्जे सच्चेण होअहं ॥२८०॥ न च किञ्चिदनुज्ञातम् एकान्तेन प्रतिषिद्धं वाऽपि जिनवरेन्द्रैः - भगवद्भिः, किन्तु तीर्थङ्कराणामाज्ञा इयं यदुत कार्ये | सत्येन भवितव्यं, न मातृस्थानतो यत्किञ्चिदवलम्बनीयमिति गाथार्थः ॥ ८० ॥ किमित्येतदेवमित्याहदोसा जेण निरुज्झति जेण खिज्जंति पुवकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं वा ॥ २८१ ॥ 'दोषा' रागादयो येन निरुध्यन्ते अनुष्ठानविशेषेण येन श्रीयन्ते 'पूर्वकर्माणि' शेषाणि ज्ञानावरणादीनि 'स सः' अनुष्ठानविशेषो मोक्षोपायः, दृष्टान्तमाह-रोगावस्थासु 'शमनमिव' औषधानुष्ठानमिवेति, उक्तं च भिषग्वरशास्त्रे - " उत्प For Private & Personal Use Only सिक्कगब न्धः आचरणास्वरूपं च ॥ ४७ ॥ www.jainelibrary.org
SR No.600005
Book TitlePanchvastukgranth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages634
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy