________________
श्रीपञ्चव. प्रतिदिन क्रिया २
प्रतिलेखनाद्वारम्
॥४१॥
पसिढिल पलंब लोला एगामोसा अणेगरूवधुणा ।
कुणइ पमाणि पमायं संकिअगणणोपगं कुज्जा ॥२४९॥ दारं ॥ प्रश्लथम् अघनग्रहणात् प्रलम्बम्-एकान्तग्रहणेन लोलनं भूमिकरयोरवज्ञया एकामर्षः आकर्षणादौ अनेकरूपधूननं त्रिसङ्ख्योल्लङ्घनादौ, करोति प्रमादमिति योगः, क्वेत्याह-प्रमाणे-प्रत्फोटनादिसम्बन्धिनि, ततः शङ्कोपजायते, तद्विनिवृत्यर्थं गणनोपगं कुर्यात्-प्रत्युपेक्षणं गणनां कुर्वन् कुर्यादित्यर्थः, अन्ये तु काक्वा व्याचक्षते-प्रमादतः शङ्काभावे सति गणनोपगं भवति, ततः प्रमादमेव न कुर्यादिति गाथासमुदायार्थः ॥ ४९ ॥ अवयवार्थ वाह
पसिढिलमघणं अणिरायगं व विसमगह लंब कोणे वा । दारं ।
भूमिंकरलोलणया कड्डणगहणेकआमोसा ॥ २५० ॥ दारं ॥ प्रश्लथमघनमिति ग्रहणदेशेऽधनग्रहणाद् अनिरायतं वा प्रश्लथमतटितमित्यर्थः, प्रलम्बमाह-विषमग्रहे लंबमिति भवति, मध्य इति गम्यते, कोणे वा-पर्यन्ते वा लम्बं भवति अपरान्तग्रहणेन, अन्ये तु अनिरायतमपि प्रलम्बभेदमेवाभिदधति, लोलनमाह-भूमिकरयोर्लोलनन् आकर्षणग्रहणयोरेकामर्ष इति, आकर्षणे-सामान्येन वेण्टिकायाः ग्रहणेऽङ्गलित्रयग्राह्यमेकया गृह्णत इति, तथाऽत्र वृद्धसम्प्रदायः-एगामोसा मज्झे चित्तण वत्थं घसंतो णेति दोहिवि पासेहिं जाव गिण्हणा, अहवा तिहिं अंगुलीहिं चित्तव्यं तं एकाओ चेव गिण्हइत्ति गाथार्थः ॥५०॥
४१॥
___Jain Education indandal
For Private & Personal Use Only
www.jainelibrary.org