________________
है मध्यमातर्जन्योश्च संयोजनेन गोस्तनाकारा धेनुमुद्रा ॥२॥ हस्ताभ्यामञ्जलिं कृत्वा प्रकाममूलपर्वाङ्गुष्ठसंयो-16
जनेनावाहूनीमुद्रा ॥ ३॥ इयमेवाधोमुखी स्थापनी ॥ ४॥ संलग्नमष्ट्युच्छ्रिताङ्गुष्टौ करौ संनिधानी ॥५॥ तावेव गर्भगाङ्गुष्ठौ निष्ठुरा ॥ ६॥ एता आवाहनादिमुद्राः ॥ बद्धमुष्टेर्दक्षिणहस्तस्य मध्यमातर्जन्योर्विस्फारितप्रसारणेन गोवृषमुद्रा ॥१॥ बद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततलताडनेन त्रासनीमुद्रा ॥२॥ एते है। नेत्रास्त्रयोः पूजामुद्रे ॥ अङ्गुष्ठे तर्जनी संयोज्य शेषाङ्गुलीप्रसारणेन पाशमुद्रा ॥१॥ बद्धमुष्टेर्वामहस्तस्य तर्जनीं । प्रसार्य किंचिदाकुश्चयेदित्यङ्कुशमुद्रा ॥२॥ संहतो;ङ्गुलिवामहस्तमूले चाङ्गुष्ठं तिर्यग्विधाय तर्जनीचालनेन ध्वजमुद्रा ॥३॥ दक्षिणहस्तमुत्तानं विधायाधःकरशाखांप्रसारयेदिति वरदमुद्रा॥४॥ एता जयादिदेवतानां पूजामुद्राः ।। वामहस्तेन मुष्टिं बध्वा कनिष्ठिकां प्रसार्य शेषाङ्गली कराङ्गष्ठेन पीडयेदिति शङ्खमुद्रा ॥१॥ परस्पराभिमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमे प्रसार्य संयोज्य च शेषाङ्गलीभिमुष्टी बन्धयेदिति शक्तिमुद्रा ॥२॥ हस्तद्वयेनाङ्गुष्ठतर्जनीभ्यां वलके विधाय परस्परान्तःप्रवेशनेन शृङलामुद्रा ॥ ३ ॥ वामहस्तस्योपरि दक्षिणकरं कृत्वा कनिष्ठिकाङ्गुष्ठाभ्यां मणिबन्धं संवेष्ट्य शेषाङ्गलीनां विस्फारितप्रसारणेन वज्रमुद्रा ॥४॥ वामहस्ततले दक्षिणहस्तमूलं संनिवेश्य करशाखा विरलीकृत्य प्रसारयोदिति चक्रमुद्रा ॥५॥ पद्माकारौ करौ कृत्वा मध्येऽङ्गुष्ठौ कर्णिकाकारी विन्यसेदिति पद्ममुद्रा ॥३॥ वामहस्तमुष्टरुपरि दक्षिणमुष्टिं कृत्वा गात्रेण सह किञ्चि
१ संनिधापनी इति स्यात् । २ मुष्टिं इति ख. ङ. पाठः । ३ शृङ्खलमुद्रा इति पाठः ।
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org