SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ नि. क. ६ Jain Education Int ॐ ध्वजाय स्वाहा । उत्तरस्यां ॐ कुबेराय स्वाहा । ॐ गदायै स्वाहा । ऐशान्यां ॐ ईशानाय स्वाहा । ॐ शूलाय स्वाहा । अत्रैव ॐ ब्रह्मणे स्वाहा । ॐ पद्माय स्वाहा । नैर्ऋत्यां ॐ नागाय स्वाहा । ॐ उत्तराय स्वाहा । एवं सास्त्राँल्लोकपालान् संपूज्य तदनु भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये सावधानेन शान्तिकर्मान्तं यावद्भगवदाज्ञया स्थातव्यमित्यनेन क्रमेण सर्वलोकपालान् भगवदाज्ञां श्रावयन्नस्त्रदुर्गमनुस्मरन् मण्डपस्याभ्यन्तरे समन्तादर्घाम्भसां सेचनेन विनोचाटनं विधाय देवसन्निधिं गत्वा सम्पूज्य प्रातिलोम्येन विसर्जनार्थमर्थं दत्वा भगवन्तं विम्बमिदमशेषदोषावहमस्य चोद्धारे सति शान्तिः स्यादिति भगवतोक्तं । अतोऽस्य समुद्धाराय समुद्यतं मामधितिष्ठैवं कुर्विति लब्धानुज्ञो हेमाद्येकतमं कुम्भमानीय गालिताम्भसा प्रपूर्य चन्दनपुष्पाक्षतैः सम्पूज्य मूलमन्त्रेणाभिमध्य मुद्राभिरालभ्य देवं रूपयेत् । तदनु विम्बसंचालनार्थं साहस्रिकं जपं कृत्वा सुवर्णपुष्पाणामष्टोत्तरशतेन विम्बस्य पूजां विधाय प्रतिमासमीपमागत्य प्रतिमाङ्गस्थितं सत्वं श्रावयेत् ॥ प्रतिमारूपमास्थाय येनादौ समधिष्ठिता । स शीघ्रं प्रतिमां त्यक्त्वा यातु स्थानं समीहितम् ॥ इति | एवमुक्त्वा ॐ विसर २ स्वस्थानं गच्छेत्यनेन मन्त्रेणार्धं दत्वा प्रतिमाधिष्ठायकं देवविशेषं विसर्जयेत् । ततो | हैमेन खनित्रेणास्त्राभिमन्त्रितेनोत्थाप्य हेमपाशया रज्ज्वा शिखायां प्रतिमां सन्नद्य गंजादिस्कन्धं संयोज्य लोकैः सह शान्तिर्भवत्विति बहिर्देवं नीत्वा शैलमयं बिम्बमगाधेऽम्भसि शिखरिणि वा क्षिपेत् । तथा मृन्मयं १ चक्राय इति स्यात् । २ म्भसा इति ख. पाठः । ३ विघ्नोद्घाटनं इति पाठान्तरम् । ४ गजादेः स्कन्धमिति पाठान्तरम् । For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy