SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Jain Education Internat प्रासादमानेन प्रमाणं परिकल्पयेत् । तच हस्तात्प्रभृति नवहस्तपर्यन्तेषु प्रतिमाप्रासादेषु चतुष्करादारभ्य विवृद्ध्या दण्डप्रमाणमवसेयम् । ध्वजं चायामतो जङ्घार्धलम्बिङ्घान्तं दण्डप्रमाणं च कर्तव्यम् । विस्तरतस्तु दशद्वादशषोडशाङ्गुल इति । मुक्ते हस्तोच्छ्रिते कलशात्कर्ता रोगातङ्कवर्जितः स्यात् । द्विहस्तोच्छ्रिते बहुप्रजो भवति । त्रिहस्तोच्छ्रिते धनधान्यैर्वर्धते । चतुर्हस्तोच्छ्रिते नृपवृद्धिः । पञ्चहस्तोच्छ्रिते सुभिक्षं राष्ट्रवृद्धिश्चेति । तथा प्राच्यां गते कर्ता सर्वकामावासिं आग्नेय्यां तापं याम्यां व्याधिभयं नैर्ऋत्यां रोगातङ्कं वारुण्यां मित्र - भावं वायव्यां धान्यसम्पदं उदीच्यां धनलाभं ऐशान्यामायुर्वृद्धिं प्राप्नोतीति ॥ तत्राशुभाशागते केतौ नम|स्कारसहस्रं जपित्वा विशेषपूजां विधाय शान्तिं कुर्यात् ॥ इति शङ्कुप्रतिष्ठा पञ्चमी ॥ ॥ अथ वेदिकालक्षणम् ॥ तत्र नन्दा सुनन्दा प्रबुद्धा सुप्रभा सुमङ्गला कुमुदमाला विमला पुण्डरीकिव्याख्या अष्टवेदिकाः । तत्रायामविस्ताराभ्यां हस्तप्रमाणा चतुरङ्गुलोच्छ्रया नन्दा । शेषास्तु विष्कम्भायामयोर्यथोत्तरं ह्रासवृद्ध्या पिण्डे चतुरङ्गुलाधिक्येनोत्तरोत्तरप्रवृद्धाः स्युः । तासां च मध्ये पूर्ववच्चतुरस्त्रं क्षेत्रं संसाध्य नन्दाद्येकतमां विचित्रमणिमयेन रजसा वेदिकां निष्पाद्य तत्कोणेषु ब्राह्मणक्षत्रियवैश्यशूद्राणां यथाक्रमं | पलाशन्यग्रोधोदुम्बरशमीमयान् कीलकान्निवेशयेत् । यद्वा सर्वेषां वर्णानां वंशमयाः शस्तास्ते सर्वेऽप्येकदारु| मया निर्ब्रणा ऊर्ध्वशाखाश्रिता राजिकोटरवर्जिता निर्ग्रन्थयो द्वादशाङ्गुलप्रमाणाः कर्तव्याः । तेच काष्ठलेोष्ठ| लोहाश्मभिर्न हन्तव्याः । वेधश्च त्याज्यः ॥ इति वेदिकालक्षणम् ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy