________________
आचारदिनकरः
॥२७॥
ASEARCH
सांप्रतं संस्कारविशेषेण ब्रह्मगुप्तिधारणादब्राह्मणः, क्षतात् त्राणेनक्षत्रं वान्यायधर्मोपदेशात, वैश्यो वा जातो- विभाग ऽसि । तत्सक्रियमेतन्जिनोपवीतं सुगृहीतं कुर्याः सुरक्षितं कुर्याः । अस्तु ते क्षयरहितः सद्धर्मवासन उपन-ले। उपनय यनविधिः।" इति व्याख्याय परमेष्ठिमन्त्रं भणित्वा दावप्युत्तिष्ठतः । चैत्यवन्दनं साधुवन्दनं च । इति उपनयने व्रतविसर्गविधिः ॥ ॥ अथ गोदानविधिः । यथा, तदा व्रतविसर्गानन्तरं गुरुः सशिष्यस्त्रिस्त्रिजिनं प्रदक्षिणीकृत्य पूर्ववच्चतुर्दिक्षु शक्रस्तवपाठं कुर्यात् । ततो गृह्यगुरुः आसने उपविशेत् । ततः शिष्यो गुरुं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य योजितकरः ऊर्ध्वस्थितो गुरुं विज्ञपयेत् । यथा, भगवन् तारितोऽहं निस्तारितोऽहं उत्तमः कृतोऽहं, सत्तमः कृतोऽहं, पूतः कृतोऽहं, तद भगवन्नादिश प्रमादबहुले गृहस्थधर्मे मम किचनापि रहस्यभूतं सुकृतं ।" ततो गुरुर्भगति, "वत्स ! सुष्वनुष्टितं सुष्टु पृष्टं तत् श्रूयतां-"दानं हि परमो धर्मो | दानं हि परमा क्रिया । दानं हि परमो मार्गस्तस्माद्दाने मनः कुरु ॥१॥ दया स्यादभयं दानं उपकारस्तथाविधः । सर्वो हि धर्मसङ्घातो दानेऽन्तर्भावमर्हति ॥२॥ ब्रह्मचारी च पाठेन भिक्षुश्चैव समाधिना। वानप्रस्थस्तु कष्टेन गृही दानेन शुध्यति ॥३॥ ज्ञानिनः परमार्थज्ञा अर्हन्तो जगदीश्वराः । व्रतकाले प्रयच्छन्ति दानं सांवत्सरं च ते ॥४॥ गृह्णतां प्रीणनं सम्यग् ददतां पुण्यमक्षयम् । दानतुल्यस्नतो लोके मोक्षोपायोऽस्ति नापरः॥ ५॥" तत् त्वं वत्स ! ब्राह्मण्यं क्षत्रत्वं वैश्यत्वं वा प्रपन्नोऽसि गृहस्थधर्मस्य मोक्षसोपानरूपं दानधर्मप्रारंभ कुरु।" ततः प्रणम्य शिष्यः कथयति, "भगवन्नादिश मे दानविधिं ॥" गुरुः कथयति, 'आदि
C
॥ २७
Jain Education in
For Private & Personal Use Only
brary of