________________
आचार: दिनकर:
विभागः उपनयन
॥२६॥
PROSTOSTOGOSTOSSSSSSS
संभोगकरणं वृक्षस्योपासनं निशि ॥ १८॥ कलहे तत्समीपं च वर्जनीयं निरन्तरम् । देशकालविरुद्धं च भोज्यकृत्यं गमागमौ॥ १९॥ भाषितं व्यय आयश्च कर्त्तव्यानि न कहिंचित् । चातुर्वर्ण्यस्य सर्वत्र व्रतादेशोऽयमुत्तमः॥२०॥ इति चातुर्वर्ण्यस्य समानो व्रतादेशः । गृह्यगुरुरिति शिष्यस्य व्रतादेशं विधाय पुरतः गत्वा जिनप्रतिमा प्रदक्षिणयेत् । पुनः पूर्वाभिमुखः शक्रस्तवं पठेत् । ततो गृह्यगुरुः आसने निविशेत् । शिष्यः नमोऽस्तु भणन् गुरोः पादयोर्निपत्य इति वदेत् , “भगवन् भवद्भिर्मम व्रतादेशो दत्तः । गुरुः कथयति, दत्तः सुगृहीतोऽस्तु सुरक्षितोऽस्तु स्वयं पर परान् तारय संसारसागरात् ।" इत्युक्त्वा नमस्कारभणनपूर्वकमुत्थाय द्वाभ्यामपि चैत्यवन्दनं कार्य । ततो ब्राह्मणेन क्षत्रियवैश्यगृहेषु भिक्षाटनं कार्य। क्षत्रियेणशस्त्रग्रहः कार्यः । वैश्येनान्नदानं विधेयम् । इत्युपनयने व्रतादेशः॥॥ अथ व्रतविसर्गः कथ्यते। ब्राह्मणेन वर्षाष्ठकादारभ्य दण्डाजिनभृता भिक्षाभोजिनां षोडशाब्दी यावद्द्यते अयमुत्तमः पक्षः। क्षत्रियेण दण्डाजिनभृता वर्षदशकादारभ्य षोडशान्दी यावत् स्वयं पाकभोजिना गुरुदेवसेवापरायणेनाट्यते । वैश्येन दण्डाजिनभृता स्वकृतपाकभोजिना द्वादशाब्दादारभ्य षोडशाब्दी यावत् अस्यते अयुमुत्तमः पक्षः। तथा चेत्कार्यव्यग्रतया तावन्ति दिनानि स्थातुं न शक्यन्ते तदा षण्मासों यावत् स्थेयं । तदभावे मासं तदभावे पक्ष तद भावे दिनत्रयं तदभावे दिन एव व्रतविसर्गः। स कथ्यते-उपनीतस्त्रिः प्रदक्षिणीकृत्य चतुर्दिक्षु जिनप्र
१ प्रदक्षिणां कारयेत् ।
Jain Education in
For Private & Personal use only
M
ainelibrary.org