SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern । सेवनमलिनीभूते लेशतोप्यविद्यमानत्वेनैतद्विधपुरुषापसददत्तप्रमाणस्य प्रतारणा रूपत्वात् । दर्शनरूपतयाऽऽत्मादिपदार्थस्वरूपनिरूपणावश्यक र्त्तव्यतया, हिंसाङ्गानुष्ठानमात्रनिरसनेना निषिद्धमनुमतमिति तदितर तत्कालीनवर्णव्यवस्थादरपुरस्सरसंस्कारादीनां स्वीकृतसमानतया, क्षत्रियशरीरश्रीमहावीरादितीर्थकृदधीनधर्माधिपत्यत्राह्मणशरीर गौतमादिगणधर गततत्सहायक र्तुत्वयोर्मत ान्तरानुमतक्षत्रिय शरीरमनुराम कृष्णाद्यधीनधर्म - स्थापनरक्षादिकर्तुत्वब्राह्मणशरीर गौतमवामदेववसिष्ठगर्गादिगततत्संचालनकर्त्तुत्वयोरिवाङ्गीकृततयार्थावेव वर्णधर्मस्याङ्गीकृतप्रायतया, तीर्थकृद्विशेषप्रादुर्भाव समयस्य विलम्बिततया सर्वसम्मतस्यापि संस्कृतागमस्य हिंसाप्रवेशेन दूषिततया सर्वसाधारणधारणीयः प्राकृतागमः कृत इति लेखस्यापि हिंसातिरिक्तया बल्लोकप्रसिद्ध संस्कृतागमसिद्धसंस्कारादिसत्कर्मणः कर्त्तव्यत्व एव सम्मततया, सूत्ररत्नमणिसुवर्णादिजैनोपवीतस्य सर्वत्रैवोपलब्धतया, विवाहमहोत्सवेऽतीव लौकिके लवणोत्तारादिकर्मण्यपि तीर्थकृतः कथं सहमता भवन्तीति गौतमप्रश्न आचार्याः प्रचलिताचारमाचरितं पूर्वजैर्न विघ्नन्तीति मरीचिरमशरीरश्रीमहावीरतीर्थकरकृदुत्तरस्यापि लौकिकस्यातिलौकिकस्य वा विशिष्याप्रतिषिद्धस्याश्रयणमेवास्तिक्यमिति तात्पर्यपरतया, आर्या म्लेच्छाश्चेति सूत्रे जात्यार्यकर्मार्थयोः, सन्तानक्रमेणागयजीवायरणस्स गोद मिति संण्णेति गाथायां सन्तानक्रमागतजीवाचरणस्य गोत्रेति संज्ञायाः स्वीकृतायाः प्रयोजकस्य सन्तानक्रमस्य स्वीकारेण त्रिवर्णाचाराद्याचारनिन्बधेषु वर्णव्यवस्था मशिथिलामात्यैव संस्काराद्यावश्यक विधीनां निरूपणेन च दिगम्बरसमूहस्यापि प्रोक्तार्थे सहमततया चाहतागमो वर्णव्यवस्थातदनुसारि संस्काराद्याचारेषु नोदास्ते नवा शेते किन्तु सुतरां जागतीति वक्तव्यस्यैव सद्भूतत्वात् । विषयलोलुपापटुप्रतिभपुरुषहतकप्रलापतो विदितार्हतदर्शनपरमार्थ स्वरूपाणामेतत्सिद्धान्तधामप्रधानस्तम्भभूतानां श्रीवर्धमानसूरिहरिभद्रसूरि हेमचन्द्राचार्ययशोविजयोपाध्यायप्रभृतिमहत्तराणामप्रतिमागमपण्डितानां संवेगगुहानिवासिनां निर्णीतसिद्धान्तेषु श्रद्धानादिरहितैः क्षुल्लकार्हतैरेव सन्देहोत्थापनस्य For Private & Personal Use Only elibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy