SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना । शब्दइवार्थवानानुपूर्वीसत्त्वे तथाविधे । अथान्यथान्यथा यस्तु स धर्मो ध्रियते धृतः ॥ १॥ किं नैतदनतिपरोक्षं सहृदयविदुषां यत्कीटो वा भटो वा ना वा नरपतिर्वा दुर्मेधा वा सुमेधा वा रक्तो वा विरक्तो वा सर्व एव स्वीयस्य यस्य कस्यचित् तात्विकस्य कल्पितस्य वा क्रियाविशेषस्याभिलषितस्य कर्त्तत्वं प्रयोजककर्तत्वं वा समाचरन्नेव विचारविषयो भवतीति । इत्थं च प्रवृत्ता निरन्तरमव्याहता मनोवाकायप्रकल्पिता प्रवृत्तिरेव द्योतयति जनतायाः कामप्यशान्ति महती चिकीर्षितं च किमप्यप्राप्तमिव प्राप्यं श्रेयोविशेष प्रेयोविशेष वा । एते च न व्यभिचरत इष्टतत्साधनप्राप्त्यनिष्टतत्साधनपरिहारान्यतरगोचरमनीषामन्यतरस्यैव चिकीर्षितत्वात्तत्रैव च तात्पर्यनिश्चयाचावतां प्रयत्नानां भ्रान्ताभ्रान्तसाधारणपुरुषानुष्ठितानाम् । दृष्टरतु पुरुषार्थ रूपोऽयं यत्नः प्रतिबन्धकपुञ्जपरिवृत इति तरुणार्द्रपद्मदलनिलीनदहन इवासकृद् ध्मातोऽपि न भवति फलेग्रहिरपेक्षते चातिशुष्क काष्ठमिवादृष्टं सस्कृतिसमुद्भूतं यावदिष्टप्रतिबन्धकाधर्मध्वंसासाधारणहेतुतया सर्वविधपुरुषार्थसाध्यसहायं द्वितीयमिति तत्रैवाधेयो यत्नस्तावत्स एव च वस्तुतो यत्नोऽन्वितत्वात्सह फलेन कार्यनिष्पत्तिपूर्वकालिकस्तु दृष्टो हि स फलस्यावश्यंभावितया पराधीनो नान्तरीयश्चेति | स्वयमेव स्फु तीति तदर्थ बहुक्लेशः कालक्षेपः । अदृष्टासहचरितेनापि दृष्टेनैव प्रयत्नेन सह फलस्य तु नास्त्येव फलनिमित्तभावो व्यभिचरितत्वादन्वयव्यतिरेकभावस्य देवतानृपप्रसादावपि समानत्वादस्य परीक्षितस्य नियमस्य । Jain Education in For Private & Personal Use Only Vanaw.jainelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy