SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ जीतकल्पभवा साधुगृहियोग्यार्थशोधिनी । दुःकर्मणां च बाध्यानां शोधनं प्रोक्तमुत्तमम् ॥ ४२।। अष्टात्रिंशत्तमे ३८ चैव सदावश्यकजो विधिः। सामायिकचतुर्विशस्तववन्दनकादिषु ॥४३॥ प्रतिक्रमणकायोत्सर्गप्रत्याख्यानविचारणम् । एषां च योजना सर्वा व्याख्या विकृतिकादिषु ॥४४॥ व्याख्या पाक्षिकसूत्रस्य यतिश्रावकसूत्रयोः। शक्रार्हत्स्तुतिसिद्धादिस्तोत्रव्याख्यानमेव च ॥ ४५ ॥ व्याख्यानं वन्दनादीनां क्षामणालोचनास्वपि । स्थापनाचार्यमानं च कालदण्डादिमानकम् ॥ ४६॥ एकोनचत्वारिंशे २९ च त्रिविधोऽपि तपोविधिः । चत्वारिंशत्तमे ४० चैव पदारोपो महत्तमः॥४७॥ व्रतिनां ब्राह्मणानां च क्षत्राणां राज्यजा स्थितिः। सामन्तमण्डलेशादिमच्यादिपयोजनम् ॥ ४८॥ तथा च वैश्यशूद्रादेः साङ्घ-पत्यपदस्थितिः । शूद्राणां कोर्त्तनं चैव सर्वेषां नामकीर्तनम् ॥ ४९ ॥ चत्वारिंशत्प्रमाणेषूदयेष्वेवं निदर्शनम् । अस्मिन् दिनकरापेक्षे चोदयस्थितिकारणम् ॥५०॥ अत्र शास्त्रे यदुक्तं तत्सर्वमर्हन्मताश्रितम् । मिथ्यादृशां व्यवहारो न मनागपि दर्शितः ॥५१॥ વ્રતાપ-(૧પમ ઉદય.) સિવાયની વ્યવહાર ક્રિયા વિધિ સાવધાના ત્યાગી એવા સાધુઓ કરાવે નહિ. સેળ ઉદય સુધી આ વિધાન છે. આ પંદર ઉદયમાં દર્શાવેલ વિધિ–ગૃડરથ શ્રાવક–જાણકાર–અને આ ગ્રંથમાં પ્રથમ દર્શાવેલ યોગ્યતા પ્રાપ્ત કરનાર-કરાવે–ત્રતાપ ત્યાગી નિગ્રન્થ ગુરૂ કરાવે. १ 'बाह्यानां' इत्यपि पाठः । Jain Education interno For Private & Personal Use Only KGenelibrary.org
SR No.600003
Book TitleAchar Dinkar
Original Sutra AuthorVardhmansuri
Author
PublisherJaswantlal Girdharlal & Shah Shantilal Tribhovandas Ahmedabad
Publication Year1981
Total Pages566
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy