________________
आचार
दिनकरः
॥१४८॥
Jain Education!
स्तान् विमलीकरोति फलं यथाम्भः कतकमस्य ||३७|| सुतहिवुकवियद्विलग्न धर्मेप्यमर गुरुर्यदि दानवार्चितो वा । यदशुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैति तत्प्रभावात् ॥ ३८ ॥ इत्यनेनानुमानेन नवांशस्यानुसारतः । कार्या षड्वर्गसंशुद्धिः स्थापनादीक्षयोः शुभा ॥ ३९ ॥ कार्यमात्यन्तिकं चेत्स्यात्तदा बहुगुणान्वितम् । स्वल्पदोषं समाश्रित्य लग्नं सत्सर्वमाचरेत् ॥ ४० ॥" इत्येवंविधे लग्ने प्रतिष्ठा विधेया । तत्रोत्कृष्टत्वेन धनुःशतं क्षेत्रशुद्धिः, मध्येन धनुःपञ्चाशत् जघन्येन धनुपञ्चविंशतिक्षेत्रशुद्धिर्विधेया । क्षेत्रशुद्धियुक्तिर्यथा-शुद्धमृत्तिकापर्यन्तं भूमिखननं, ततः काष्टस्थिचर्मकेशनखदन्ततृणामेध्यावकराणां दूरतोपसारणं तत्र च गौरसुरभिमृत्स्नापरिक्षेषः, ततः उपरि गोमूत्र गोमयस्थापनं, ततो देशे वा तत्र नगरे ग्रामे वा दिनसप्तकममारिघोषणं राज्ञो देश नगराधिपतेः बहुपदादानपूर्वकमनुज्ञाग्रहणं, स्थपतिभ्यो वस्त्रकेयूरकडकमुद्रिकादिदानम् । प्रतिष्ठायां करणीयानि यथा - पञ्चशद्योजनमध्ये गताचार्योपाध्याय साधुसाध्वीश्राविकाणामाहानं कौसुम्भस्सूत्रकौसुम्भवस्त्ररञ्जनं कुमारीकर्तितसूत्रप्रगुणीकरणं पवित्रस्थानात् समस्तकूप वापीतडागानि रतदिनीविवरिकोज्झवृक्ष प्रस्राव जलानयनं गङ्गोदकानयनं च कलशैवैदिकारचनं दिक्पालपूजोपकरणस्थापनानि चतुर्णा स्नपनकराणामुभयकुलविशुद्धानामखण्डिताङ्गानां नीरोगाणां सौम्यानां दक्षाणामधीतस्नपनविधीनां कृतोपवासानां प्रगुणीकरणं, चतसृणां चौषधिपेषणकारिणीनामुभयकुलविशुद्धानां सपुत्रभतृकाणां सतीनामafण्डताङ्गीनां दक्षाणां शुचीनां सचेतनानां प्रगुणीकरणं, दिग्बल्यर्थे च नानान्नपक्वान्नपाचनमश्नतपत्रकृता
For Private & Personal Use Only
onal
॥ १४८ ॥
v.jainelibrary.org