________________
आचार: दिनकरः
विभागः१ व्रतारोप.
॥४८॥
ESSAGARSANGRESEARRIAGG
नोऽपि धर्मः स्यात्कष्ट नष्टं हहा जगत् ॥१३॥ समसंवेगनिर्वेदानुकंपास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक सम्यक्त्वमुपलक्ष्यते ॥१४॥ स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य भूषणानि प्रचक्षते ॥१६॥ शङ्का कांक्षा विचिकित्सा मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पश्चापि सम्यक्त्वं दूषयन्त्यलम्॥१६ इति व्याचक्षीत । श्रेणिकसंप्रतिदशाभद्रादिनृपदृष्टं सम्यक्त्वचरितव्याख्यानं सम्यक्त्वविषये कुर्यात् । तथा सङ्ग्रहः-"चियवंदणवंदणयं गिहिवयवसग्गपइवउच्चरणं । जहसत्तिवयग्गहणं पयाहिणं देसणं चेव ॥१॥" तद्दिने श्राद्ध एकभक्ताचाम्लादि कुर्यात् । साधुभ्योऽन्नवस्त्रपुस्तकवसतिदानं । मण्डलीपूजा । चतुर्विधसङ्घवात्सल्यं । सङ्घ पूजा च । इति व्रतारोपसंस्कारे सम्यक्त्वसामायिकारोपणविधिः॥॥ अथ देशविरतिसामायिकारोपणविधिः । स चायं तदैव सम्यक्त्वसामायिकारोपणानन्तरं तत्कालमेव तद्वासनानुसारेण दिनमासव
दिव्यतिक्रमे वा देशविरतिसामायिकमारोप्यते । तत्र नन्दिचैत्यवन्दनकायोत्सर्गवासक्षेपक्षमाश्रमणप्रभृति सर्व पूर्ववत् । परं सर्वत्र सम्यक्त्वसामायिकस्थाने देशवितिसामायिकनामग्रहणं सर्वत्र तत्तथैव कृत्वा पुनरपि द्वितीया नन्दिर्दण्डनोचारणपूर्व विधेया । व्रतोचारकाले नमस्कारत्रयपाठानन्तरं हस्तगृहीतपरिग्रहप्रमाणादिटिप्पनकस्य श्राद्धस्य गुरुर्देशविरतिसामायिकदण्डकमुच्चारयेत् । सयथा-"अहण्णं भंते तुम्हाणं समीवे थलगं पाणाइवायं संकप्पओ बीइंदिआइजीवनिकायनिग्गहनियहिरुवं निरवराह पचक्खामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिकमामि निंदामि गरिहामि
For Private & Personal Use Only
SHASHASKARNERSHASHARARIA
॥४८॥
lan Education
a
l
[w.jainelibrary.org