________________
ध्यस्ति तथा संसृतिनिवृती। एकस्य विगमादेव स्यादन्यस्य महोदयः ॥५६॥ द्वयोरवगमाय स्यात्पन्धाः संदिग्ध एव सः । जीवा भ्राम्यन्ति सर्वत्र कर्मसूत्रविवेष्टिताः॥५७॥ कुकर्मोन्मोचनादेव बन्धः सत्कर्मणो भवेत् । सत्कर्मोन्मोचनात्तत्र बन्धः स्थाच कुकर्मजः॥५८॥ एवं सति कथं कर्मक्षयः संभाव्यते बुधैः । कथं तेन विना मोक्ष इत्येवं संशयो महान् ॥ ५९॥ अदेवागुर्वधर्माणां त्यागाचेत्कर्मणां क्षयः । किं देवगुरुधर्माः पू स्युः समर्थास्तत्र कर्मणि ॥ १६०॥ कोऽहता सुगतेनापि विष्णुना शंभुनाथ वा। सूर्येण ब्रह्मणा वापि नीतो मोक्षपदं जनः ॥ ६१॥ कः पापकारी गुरुणा खशक्त्या मोचितोऽहसः । तस्योपदेशदाता स कर्मणा खेन गृह्यते ॥ ६२॥ को वा जटावान्कर्मन्दी मुमुक्षुर्वा दिगम्बरः । शुक्लध्यानविनाभूतो वेषमात्रेण निवृतः ॥ ६३॥ अथ केवलिनोक्तेन मोक्षः स्याद्धर्मकर्मणा। तदा तदाचारयुक्तिः कथमेवानुमीयते ॥ ६४॥ दयया सत्यवादेन द्युम्नप्रद्युम्नवर्जनैः । तपसा प्राप्य किं कोपि सर्वथा कर्मनिर्जराम् ॥६५॥ तदेव गुरुधर्माणां संग्रहः कर्मबन्धहृत् । यत्ते शुभाशुभं कर्म बन्धयन्त्यशुभं परे ॥६६॥ तस्मात्केन पथा मोक्षः साध्यते मोक्षकाटिभिः। ज्ञानदर्शनचारित्ररत्नत्रयविनाकृतः॥६७॥ एतद्रत्नत्रयं कैश्चिदेकान्तत्वेन गृह्यते। ऐकान्त्यादेव मिथ्यात्वं मिथ्यात्वे नास्ति निवृतिः ॥ १८॥ ज्ञानमेकान्तता नीतं मूढैः कुग्रहवादिभिः। ऐक्येपि सर्वतत्त्वानां तद्भेदान्तरसंग्रहात् ॥ ६९॥ सर्वत्र सर्व व्याख्येयमेकमन्यत्कदाचन । कल्पनानामयुक्तीनां विबुधा विबुधेरिता ॥१७॥ तस्मात्स्यावाद एवास्ति ज्ञानं नान्यद्विमर्शने । तत्त्वादीनां विचारेऽत्र येन स्यादप्यनुष्ठितः ॥ ७१ ॥ जगत्सु
Jan Education Internat
For Private & Personal Use Only
W
ww.jainelibrary.org